________________
८८९
15
भाष्यगाथाः ३१६८-७६] प्रथम उद्देशः ।
तत्थोतपोतम्मि समंततेणं, भिक्खा-वियारादिसु दुप्पयारं ॥ ३१७२ ॥ समृद्ध्याः-वस्त्रा-ऽऽभरणादिरूपायाः सम्-इति सामस्त्येन यद् दर्शनम्-अवलोकनं तत्र व्यापृतेन-'इदं पश्यामि, इदं वा पश्यामि' इति व्याक्षिप्तचेतसा, तथा 'तेषां परेषां' श्रेष्ठिप्रभृतीनां यान-वाहनादीनि 'मुख्यानि' प्रधानानि विविधम्-अनेकप्रकारं पश्यता सूत्रार्थयोः परिमन्थः कृतः स्यादिति शेषः । तत्र चे स्त्री-पुरुषैः समन्ततः 'उअपोते' देशीपदत्वाद् -5 आकीर्णे भिक्षायां विचारभूमौ आदिशब्दाद् विहारभूम्यादौ च दुष्प्रचारं भवति । यत एते दोषा अतः सङ्खड्यां न गन्तव्यम् ॥ ३१७२ ॥ अथ परः प्राह
दोसेहिँ एत्तिएहिं, अगेण्हंता चेव लग्गिमो अम्हे।
गेहामु य मुंजामु य, ण य दोस जहा तहा सुणसु ॥ ३१७३॥ सङ्खडिगमने यावन्त एते भवद्भिर्दोषा उक्ता एतावद्भिर्वयं सङ्खडिभक्तमगृह्णाना एव लगामः, 10 ततो न कार्यमस्माकं प्रामादिमध्याध्यासनेन । सूरिराह-वयं सङ्खडिभक्तं गृहीमो वा भुञ्जमहे वा न च 'दोषाः' पूर्वोक्ता यथा भवन्ति तथाऽभिधीयमानं शृणु । इयं पुरातना गाथा ॥३१७३॥ अथैनामेव व्याख्यानयति
अपरिग्गहिय अभुत्ते, जति दोसा एत्तिया पसजंती।
इत्थं गते सुविहिया, वसंतु रण्णे अणाहारा ।। ३१७४ ॥ परः प्राह-अपरिगृहीतेऽभुक्तेऽपि च सङ्खडिभक्ते यद्येतावन्तो दोषाः पथि गच्छतां प्रामादेमध्ये बहिश्च तिष्ठतां भवन्ति, ततः 'इत्थम्' एवं 'गते' स्थिते सम्प्रति सुविहिता अनाहाराः सन्तोऽरण्ये वसन्तु ॥ ३१७४ ॥ गुरुराह
होहिंति न वा दोसा, ते जाण जिणो ण चेव छउमत्थो।
पाणियसद्देण उवाहणाउ णाविन्भलो मुयति ॥ ३१७५ ॥ 20 हे नोदक ! नायं नियमो यत् सङ्खडिं गच्छतामवश्यमनन्तरोक्ता दोषा भवन्ति, कारणे यतनया गच्छतस्तेषामसम्भवात् ; ततः 'ते दोषा भविष्यन्ति वा न वा' इत्येवं जिनो जानाति नैव छद्मस्थो भवादृशः । अतो यदुक्तं भवता-"इत्थं गते सुविहिता अरण्ये गत्वा वसन्तु" (गा० ३१७४ ) तदेतदज्ञानविजृम्भितम् , यतः पानीयशब्देनोपानही न 'अविह्वलः' अमूखों मुञ्चति, यो मूल् भवति स एव मुञ्चतीति भावः; एवं भवानपि सङ्खडिगमनमात्रे दोषोपप्रदर्शनं 25 श्रुत्वा यदेवं ग्रामादीन् परित्यज्यारण्यवासमभ्युपगच्छति तद् नूनमबुधचक्रवर्तीति हृदयम् ॥ ३१७५॥ अपि च
दोसे चेव विमग्गह, गुणदेसित्तेण णिचमुजुत्ता।
ण हु होति सप्पलोद्धी, जीविउकामस्स सेयाए ॥ ३१७६ ॥ हे नोदक ! « यद्यपि कारणे वक्ष्यमाणयतनया सङ्खडिगमने प्रत्युत बहवो गुणा भवन्ति 30 तथापि » गुणद्वेषित्वेन यूयं नित्यमुद्युक्ताः सन्तो गुणान्वेषणबुड्या दोषानेव विमार्गयथ न १च मत्तोन्मत्तादिभिः स्त्री भा० ॥२- एतच्चिह्नगतः पाठः भा० नास्ति ॥ ३ - एतदन्तर्गतः पाठः मो० ले० का. एव वर्तते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org