Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 327
________________ ૮૮૮ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [संखडिप्रकृते सूत्रम् ४७ ग्लानत्वमुपजायते, प्रतिश्रयशीतलतया भक्तस्याजीर्यमाणत्वात् । स च ग्लानो यदि तत्रोच्चारप्रश्रवणादि करोति तदा सागारिका उड्डाहं कुर्युः । अथ न करोति ततः परितापनादयो दोषाः ॥ ३१६७ ॥ अथैतद्दोषभयाद् ग्रामाद् बहिर्वसन्ति ततः को दोषः स्यात् ? इति प्रश्नावकाशमाशङ्याह बहिया य रुक्खमूले, छक्काया साण-तण-पडिणीए । मत्तुम्मत्त विउव्वण, वाहण जाणे सतीकरणं ॥ ३१६८॥ ग्रामादेर्बहिर्वृक्षमूले आकाशे वा पृथिवीकायः सचित्तरजःप्रभृतिकः, अप्कायः स्नेहकणिकादिः, तेजःकायो विद्युदादिः, वायुकायो महावातादिः, वनस्पतिकायो विवक्षितवृक्षसत्कपुप्प-फलादिः, त्रसकायो वृक्षनिश्रितद्वीन्द्रियादिरूपः सम्भवति; एते षट्कायास्तत्र तिष्ठतां विरा10 ध्यन्ते । असंवृते च तत्र श्वानो भाजनमपहरेत् , स्तेना वा उपद्रवेयुः, प्रत्यनीको वा विजनं मत्वा हन्याद्वा मारयेद्वा । तथा 'मत्ताः' मदिरामदभाविताः 'उन्मत्ताः' मन्मथोन्मादयुक्ता विटा इत्यर्थः ते 'विकुर्वणां' भूषणादिभिरलङ्करणं विधाय तत्रागच्छन्ति, 'वाहनानि' हस्त्यश्वादीनि 'यानानि' शिबिका-रथादीनि, तानि दृष्ट्वा भुक्तभोगिनां स्मृतिकरणमभुक्तभोगिनां तु कौतुकमु पजायत इति नियुक्तिगाथासमासार्थः ॥ ३१६८॥ अथैनामेव र भाष्यकारो- विवृणोति15 मा होज अंतो इति दोसजालं, तो जाति दूरं बहि रुक्खमूले। अभुञ्जमाणे तहियं तु काया, अवाउते तेण सुणा य णेगे ॥ ३१६९ ॥ 'अन्तः' ग्रामाभ्यन्तरे सभादौ वसताम् 'इति' अनन्तरोक्तं दोषजालं मा भूदित्यभिसन्धाय 'ततः' ग्रामाद् बहिर्दूरे वृक्षमूले याति । तत्र च 'अभुज्यमाने' अव्याप्रियमाणे प्रदेशे पूर्वोक्तनीत्या षडपि काया विराध्यन्ते । अपावृते च तत्र स्तेनाः श्वानश्चानेके उपद्रवं विदधति ॥ ३१६९ ॥ 20 उम्मत्तगा तत्थ विचित्तवेसा, पढ़ति चित्ताऽभिणया बहूणि । . कीलंति मत्ता य अमत्तगा य, तत्थित्थि-पुंसा सुतलंकिता य ॥ ३१७०॥ _ 'तत्र' उद्याने 'उन्मत्ताः' विटाः 'विचित्रवेषाः' विविधवस्त्रादिनेपथ्यधारिणः 'चित्राभिनयाः' नानाप्रकारहस्ताद्यभिनया बहूनि शृङ्गारकाव्यानि पठन्ति । तथा मत्ता अमत्ता वा तत्र स्त्री-पुरुषाः सुष्ठु-वस्त्रा-ऽऽभरणैरलङ्कृताः सन्तः क्रीडन्ति ॥ ३१७० ॥ 25 आसे रहे गोरहगे य चित्ते, तत्थाभिरूढा डगणे य केइ । विचित्तरूवा पुरिसा ललंता, हरंति चित्ताणविकोविताणं ॥३१७१॥ 'तत्र' उद्याने केचित् पुरुषा अश्वान् अपरे रथान् तदन्ये 'गोरथकान्' कल्होडकान् केचित् 'चित्राणि' नानाप्रकाराणि युग्यादीनि यानानि 'डगणानि च' यानविशेषरूपाण्यधिरूढाः सन्तो विचित्ररूपाः पुरुषाः श्रेष्ठिपुत्रादयः 'ललन्तः' क्रीडन्तो 'अविकोविदानाम्' अगीतार्थानां चिचानि 20 हरन्ति । ततश्च भुक्ता-ऽभुक्तसमुत्था दोषाः ॥ ३१७१ ॥ सामिद्धिसंदसणवावडेण, विप्पस्सता तेसि परेसि मोक्खे । १ इति सङ्ग्रहगाथा भा०॥ २ » एतदन्तर्गतः पाठः कां० एव वर्तते ॥ ३°मूलं ता० ॥ ४ तं वसतिदोषप्रभृतिकं दोष का० ॥ ५°सि रिद्धी ता० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364