Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
८४६ सनियुक्ति-लधुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ संखडिप्रकृते सूत्रम् ४७ ष्यामि ॥ ३१५९ ॥ पस्तीर्थिकतर्जनाद्वारमाह
इंदियमुंडे मा किंचि वेह मा णे डहेज सावेणं ।
पेहा-सोयादीसु य, असंखडं हेउवादो यः ॥ ३१६०॥ ये तत्र सङ्खडी श्रुत्वा शाक्य-भौत-भागवतादयः परतीर्थिकाः समायातास्ते साधून तर्जयन्त 5 इत्थं ब्रुवते-इन्द्रियमुण्डा अमी सङ्खडिप्राप्ताः श्रमणाः, 'मा किञ्चिदमून् ब्रूत' न किमप्यमीपां सम्मुखं विरूपकं भाषणीयम् , मा “णे" युष्मान् अमी तपखिन आक्रुष्टाः सन्तः शापेन दहेयुः । एवं तर्जनामसहमाना अपरिणतास्तैः सहासङ्खडं कुर्युः । तथा प्रेक्षा-प्रत्युपेक्षणा तां कुर्वतो दृष्ट्या शौचं वा स्वल्पकलुवादिना पानकेन विधीयमानं दृष्ट्वा आदिशब्दात् संयतभाषया भाषमाणान् श्रुत्वा परतीथिका उड्डञ्चकान् कुर्वन्ति, तत्र तथैवासङ्खडं भवेत् । हेतुना वा ते परतीर्थिका 10वादं मार्गयेयुः । यदि दीयते ततस्तेषामात्मनो वा पराजये यथाक्रमं प्रद्वेषगमन-प्रवचनलाघवादयो दोषाः । अथ न दीयते ततस्ते लोकसमक्षमवर्णवादं कुर्युः-बठरशिरःशि(शे)खरा एते न किमपि जानन्तीत्यादि ॥ ३१६० ॥ बिलधर्मद्वारमाह
भिंगारेण ण दिण्णा, ण य तुझं पेतिगी सभा एसा ।
अतिवहुओ ओवासो, गहितो णु तुए कलहों एवं ॥ ३१६१ ॥ 15 साधारणे सभादौ पिण्डीभूय साधवो गृहस्थाश्च यदेकत्रावतिष्ठन्ते स बिलधर्मः । तेन वसतां साधुभिः प्रभूतेऽवकाशे मालिते सति गृहस्था ब्रुवते-भो श्रमण ! एषा सभा तुभ्यं न भृङ्गारेण दत्ता, उदकेन न कल्पितेति भावः; न च तवेयं 'पैतृकी' पितृपरम्परागता, अतः किन्तु नाम अतिबहुकोऽवकाशस्त्वया गृहीतः ? एवं कलहो भवति ॥ ३१६१ ॥
तत्थ य अतित णेतो, संविट्ठो वा छिवेज इत्थीओ।
इच्छमणिच्छे दोसा, भुत्तमभुत्ते य फासादी ॥ ३१६२॥ ___ 'तत्र च' सभादौ कोऽपि साधुरतिगच्छन् निर्गच्छन् वा समुपविष्टो वा स्त्रीः स्पृशेत् तत आत्मपरोभयसमुत्था दोषाः । तत्र च यदि तामविरतिको प्रतिसेवितुमिच्छति तदा संयमविराधना । अथ नेच्छति ततः सा उड्डाहं कुर्यात् । स्त्रीणां च स्पर्शादिषु तथा आतोद्य-गीतशब्दान् स्त्रीसम्बन्धिनश्च हसित-कूजितादिशब्दान् श्रुत्वा भुक्ता-ऽभुक्तसमुत्था दोषाः ॥ ३१६२ ॥ 25 भूयोऽपि दोषदर्शनार्थमाह
आवासग सज्झाए, पडिलेहण भुंजणे य भासाए ।
वीयारे गेलण्णे, जा जहिं आरोवणा भणिया ॥३१६३ ॥ आवश्यके १ खाध्याये २ प्रत्युपेक्षणायां ३ भोजने ४ च भाषायां ५ विचारे ६ ग्लानत्वे च ७ या यत्रारोपणा भणिता सा तत्र ज्ञातव्येति द्वारगाथासमासार्थः ॥ ३१६३ ॥ 30 साम्प्रतमेनामेव प्रतिपदं विवृणोति
आवासगं तत्थ करेंति दोसा, सज्झाय एमेव य पेहणम्मि ।
उहुंच वारेंतमवारणे य, आरोवणा ताणि अकुव्वओ जा ॥ ३१६४ ॥ १ स्पर्शन-दर्शनादिषु भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364