Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 304
________________ ८६५ भाष्यगाथाः ३०७१-७७] प्रथम उद्देशः । कुंकु अगुरुं पत्तं, चोयं कत्थूरिया य हिंगुं च । संखग-लोणभरितेण, न तेण सत्थेण गंतव्वं ॥ ३०७४ ॥ ___ कुंकुमं अगुरुः तगरपत्रं "चोयं" ति त्वक् कस्तूरिका हिङ्गुरेवमादिकमखाद्यद्रव्यं यत्र भवति, यश्च शङ्खन लवणेन वा भृतः-पूर्णः, तत्रान्तरा व्याघाते समुत्पन्ने निष्ठितशम्बलाः सार्थिकाः किं प्रयच्छन्तु ? यत एवमतः 'तेन' तादृशेन सार्थेन सह न गन्तव्यम् ॥ ३०७४ ॥ गता द्रव्यतः प्रत्युपेक्षणा । अथ क्षेत्र-काल-भावैस्तामाह खेत्ते जं वालादी, अपरिस्संता वयंति अद्धाणं । काले जो पुव्वण्हे, भावें सपक्खादणोमाणं ॥ ३०७५ ॥ यावन्मात्रमध्वानं बाल-वृद्धादयोऽपरिश्रान्ताः 'बजन्ति' गन्तुं शक्नुवन्ति तावन्मानं यदि सार्थों व्रजति तदा स सार्थः 'क्षेत्रे' क्षेत्रतः शुद्धः । तथा यः सूर्योदयवेलायां प्रस्थितः पूर्वाह्ने तिष्ठति 10 स कालतः शुद्धः । यत्र तु खपक्ष-परपक्षभिक्षाचरैरनवमानं स भावतः शुद्धः ॥ ३०७५ ॥ एकिक्को सो दुविहो, सुद्धो ओमाणपेल्लितो चेव ।। मिच्छत्तपरिग्गहितो, गमणाऽऽदियणे य ठाणे अ॥ ३०७६ ॥ भण्डीसार्थ-बहिलकसार्थयोर्मध्यादेकैको द्विविधः-शुद्धोऽशुद्धश्च । शुद्धो नाम-यो नावमानप्रेरितः, अवमानप्रेरितोऽशुद्धः । तथा सार्थवाह आदियात्रिको वा यो वा तत्र प्रधानः स यदि 15 मिथ्यादृष्टिस्तदा स सार्थो मिथ्यात्वपरिगृहीत इति कृत्वा ना गन्तव्यः । “गमणाऽऽइयणे य ठाणे य" ति गमने यः सार्थः मृदुगतिः अच्छिन्नेन वा पथा व्रजति, आदनं-भोजनं तद्वेलायां यस्तिष्ठति, 'स्थाने च' स्थण्डिले यो निवेशं करोति ईदृशः शुद्धः ॥ ३०७६ ॥ अथ खपक्ष-परपक्षावमानं व्याख्यानयति समणा समणि सपक्खो, परपक्खो लिंगिणो गिहत्था य । 20 आया-संजमदोसा, असईय सपक्खवजेण ॥ ३०७७ ॥ स्वपक्षः श्रमणाः श्रमण्यश्च द्रष्टव्याः । परपक्षो लिङ्गिनो गृहस्थाश्च । इह लिङ्गिनोऽन्यतीथिका द्रष्टव्याः । ईदृशेन भिक्षाचरवर्गेणाकीर्णे पर्याप्तमलभमानानामात्म-संयमदोषा भवन्ति । तत्रात्मदोषाः परितापनादिना, संयमदोषास्तु कन्दादिग्रहणेनेति । अथानवमानं सर्वथैव न प्राप्यते ततोऽनवमानस्यासति 'स्वपक्षवर्जन' स्वपक्षावमानं वर्जयित्वा यत्र परपक्षावमानं भवति 25 तेन गन्तव्यम् । तत्र जनो भिक्षाग्रहणे विशेषं जानाति-इमे श्रमणाः, एते तु तच्चन्निकादय इति ॥ ३०७७ ॥ “गमणाऽऽदियणे य ठाणे य" त्ति पदत्रयं व्याचष्टे१°म तगरं पत्तं ता०॥ २ यत्र कुङ्कमा-गुरु-तगरपत्र-त्व-कस्तूरिका-हिङ्ग्वादिकमखाद्य भा० ॥ ३°वन्तीति भावः, ताव भा० ॥ ४सार्थः क्षेत्रशद्धः कां. विना ॥ ५तु 'स्वपक्षाद्यनवमानं स्वपक्ष का ६ शुद्धो मन्तव्यः ॥ ३०७५ ॥ अथावमानप्रत्युपेक्षणां भावयति-एकिको कां ॥ ७°सार्थादीनामेकैकः सार्थो द्विवि° भा० । “एकेको ति भंडिओ बहिलगो य, एस दुविहो वि सुद्धो असुद्धो य” इति चूर्णी विशेषचूर्णौ च ॥ ८°नुमन्तव्यः भा० मो० ले० ॥ Jain Education International · For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364