Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 314
________________ भाष्यगाथाः ३१०९-१९] प्रथम उद्देशः । यथा खादन्ति । ततस्ते सार्थिका रज्जुवलनं कुर्वन्ति । ततो गीतार्थाः कृतसहेताः पृच्छन्तिकथयत, किमेताभी रज्जुभिः प्रयोजनम् । । सार्थिका भणन्ति-वयमेकनावारूढाः, अतो योऽस्माकं कन्दादीनि न भक्षयति तं वयमेताभिर्विहायसि लम्बयामः, 'इतरथा' तस्य बुभुक्षार्तस्य पुरतः खादितुं 'दुःखं' दुष्करम् , न वयं भक्षयितुं शक्नुम इति भावः ॥ ३११३ ॥ इहरा वि मरति एसो, अम्हे खायामों सो वि तु भएण। कंदादि कजगहणे, इमा उ जतणा तहिं होति ॥ ३११४॥ कन्दादीन्यभक्षयन्नितरथाऽप्यस्यामटव्यामवश्यमे म्रियते अतो विहायसि लम्बनेन तं मारयित्वा सुखेनैव वयं भक्षयामः इत्युक्ते 'सोऽपि' अपरिणतो भयेन कन्दादिभक्षणं करोति । एवमादिषु कार्येषु कन्दादिग्रहणे प्राप्ते इयं यतना भवति ॥ ३११४ ॥ तामेवाहफासुग जोणिपरित्ते, एगडिगबद्ध भिन्नभिण्णे अ। 10 बद्धट्टिए वि एवं, एमेव य होइ बहुबीए ॥ ३११५ ॥ एमेव होइ उवरिं, एगट्ठिय तह य होइ बहुबीए । साहारणसभावा, आईए बहुगुणं जं च ॥३११६ ॥ द्वे अपि ( गा० २९१८-१९) व्याख्यातार्थे ॥ ३११५॥३११६ ॥पानकयतनामाहतुवरे फले य पत्ते, रुक्ख-सिला-तुप्प-मद्दणादीसु । 15 पासंदणे पवाते, आतवतत्ते वहे अवहे ॥ ३११७ ॥ एषाऽपि (गा० २९२२) गतार्था ॥ ३११७ ॥ मता अशिवविषया यतना । अभावमौदर्यविषयां यतनामाह ओमे एसणसोहिं, पजहति परितावितो दिगिच्छाए। अलभते वि य मरणे, असमाही तित्थवोच्छेदो ॥ ३११८॥ 20 अवमौदरिकं विज्ञायानागतमेव द्वादशभिर्वः निर्गन्तव्यम् । अथ न निर्गच्छन्ति ततश्चतुर्गुरु आज्ञादयश्च दोषाः । तत्र च तिष्ठन् 'दिगिन्छया' क्षुधा परितापितः सन्नेषणाशुद्धि प्रेजहाति, अथवा भक्त-पानमलभमानो मरणमामोति । १ अँसमाधिना च म्रियमाणो देवदुर्गतिं दुर्लभबोधिकत्वं च प्रामोति । » एवं चान्याऽन्यसाधुषु म्रियमाणेषु तीर्थस्य व्यवच्छेदो भवति ॥ ३११८॥ यत एवमतः ओमोदरियागमणे, मग्गे असती य पंथें जयणाए । परिपुच्छिऊण गमणं, चउविहं रायदुटुं च ॥ ३११९॥ अवमौदरिकायां गमने प्राप्ते पूर्व मार्गेण गन्तव्यम् । मार्गस्याभावे पथाऽपि 'किं छिन्नोऽच्छिन्नो वाऽयं पन्थाः ?' इति परिपृच्छ्य 'यतनया' अशिवद्वारोक्तया गमनं विधेयम् । अथ १ मेव क्रिय भा० का विना ॥ २ °पि गाथे रात्रिभक्तसूत्रप्रस्तावे व्या का० ॥ ३ अथ पान कां• ॥ ४°पि रात्रिभक्तसूत्रप्रस्ताव एव गता कां० ॥ ५'प्रजहाति' परित्यजति, अनेषणीयमपि गृहातीति भावः । अथवा कां ॥ ६० एतदन्तर्गतः पाठः भा० का. एव वत्तते ।। 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364