Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 310
________________ भाष्यगाथाः ३०९४-३१००] प्रथम उद्देशः । गीतार्थ पुरस्कृत्यागीतार्थप्रत्ययनिमित्तमन्तराऽन्तरा कानिचिदर्थपदानि परित्यजन् सूरिर्गच्छमध्वकल्पं ग्राहयेत् ॥ ३०९६ ॥ स एवंविधेन विधिना निर्गतानामयं विधिः-- सभए सरभेदादी, लिंगविओगं च काउ गीयत्था । खरकम्मिया व होउं, करेंति गुत्तिं उभयवग्गे ॥ ३०९७ ॥ यत्र सभयं तत्र वृषभाः स्वरभेद-वर्णभेदकारिणीभिर्गुलीकाभिरन्यादृशं वरं वर्ण च कृत्वा गच्छन्ति । अथवा यथा 'एते संयताः' इति न ज्ञायते तथा लिङ्गवियोगं कृत्वा गीतार्थी गच्छन्ति । खरकम्मिका वा सन्नद्धपरिकरा यथासम्भवं गृहीतायुधा भूत्वा वृषभाः 'उभयवर्गे' साधु-साध्वीलक्षणे 'गुप्ति' रक्षां कुर्वन्ति ॥ ३०९७ ॥ किञ्च जे पुव्वि उवकरणा, गहिया अद्धाण पविसमाणेहिं । जं जं जोग्गं जत्थ उ, अद्धाणे तस्स परिभोगो ॥ ३०९८॥ 10 यानि पूर्व धर्मकरकादीन्युपकरणानि अध्वानं प्रविशद्भिगृहीतानि तेषां मध्ये यद् यस्मिन् काले योग्यं तस्य तदा अध्वनि परिभोगः कर्त्तव्यः ॥ ३०९८ ॥ ॥ अथाध्वकल्पभोगे विधिमाह-- सुक्खोदणो समितिमा, कंजुसिणोदेहि उण्हविय भुंजे। मूलत्तरे विभासा, जतिऊणं णिग्गते विवेगो ॥ ३०९९ ॥ .. 15 "कंजुसिणोदेहि" त्ति इह च लाटदेशेऽवश्रावणं काञ्जिकं भण्यते । यदाह चूर्णिकृत् अवसावणं लाडाणं कजियं भण्णइ ति ।। ततोऽवश्रावणेनोष्णोदकेन वा शुष्कौदनं शुष्कसमितिमाँश्च 'उप्णयित्वा' मृदुभवनार्थमुष्णीकृत्य भुञ्जीत । "जइऊणं निग्गएँ विवेगो" ति एवमादिकया यतनया यतित्वा यदा अध्वनो निर्गतास्तदा तमध्वकल्पमभुक्तं भुक्तोद्वरितं वा विविचन्ति, परिष्ठापयन्तीत्यर्थः । “मूलुत्तरे 20 विभास" ति ? मूलोत्तरगुणविषया विभाषा कर्तव्या । तद्यथा--->» शिष्यः पृच्छति-यो अध्वकल्प आधाकर्मिकः परिवासितश्च स तावदाधाकम्भिकत्वेनोत्तरगुणोपघाती परिवासितत्वेन तु मूलगुणोपघाती ततः किमेष भुज्यताम् ? उत प्रतिदिवसं लभ्यमानमाधाकर्म ? अंत्रोच्यतेअवकल्पो भुज्यतां नाधाकर्म ॥ ३०९९ ॥ ननु दोषद्वयदुष्टोऽसौ ? सूरिराह कामं कम्मं तु सो कप्पो, णिसिं च परिवासितो।। तहा वि खलु सो सेओ, ण य कम्मं दिणे दिणे ।। ३१०० ॥ 'कामम्' अनुमतम्-यदसावध्वकल्प एकं तावदाधाकर्म अपरं च 'निशि' रात्रौ परिवा११ एतदन्तर्गतमवतरणं भा० नास्ति ॥ २°नामध्वनि वहमानानां विधिं दर्शयति कां० ॥ ३ °चर्मकरका मो० ले० ॥ ४ एतन्मध्यगतमवतरणं कां० एव वर्तते ॥ ५१- एतदन्तर्गतः पाठः भा० नास्ति ॥ ६ अत्र केचिदाचार्यदेशीयाः प्रत्युत्तरयन्ति-आधाकर्म भोक्त. व्यम्, न पुनराधाकर्मिकः परिवासितोऽध्वकल्पः, यतो दोषद्वयदुष्टोऽसौ, ततः कथमेकदोषदुष्टमाधाकर्म परिहृत्यासौ भुज्यते? ॥ ३०९९ ॥ सूरिराह कां० ॥ ७ अवधारितमस्माभिः-यदः कां ॥ 25 - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364