________________
भाष्यगाथाः ३०९४-३१००] प्रथम उद्देशः । गीतार्थ पुरस्कृत्यागीतार्थप्रत्ययनिमित्तमन्तराऽन्तरा कानिचिदर्थपदानि परित्यजन् सूरिर्गच्छमध्वकल्पं ग्राहयेत् ॥ ३०९६ ॥ स एवंविधेन विधिना निर्गतानामयं विधिः--
सभए सरभेदादी, लिंगविओगं च काउ गीयत्था ।
खरकम्मिया व होउं, करेंति गुत्तिं उभयवग्गे ॥ ३०९७ ॥ यत्र सभयं तत्र वृषभाः स्वरभेद-वर्णभेदकारिणीभिर्गुलीकाभिरन्यादृशं वरं वर्ण च कृत्वा गच्छन्ति । अथवा यथा 'एते संयताः' इति न ज्ञायते तथा लिङ्गवियोगं कृत्वा गीतार्थी गच्छन्ति । खरकम्मिका वा सन्नद्धपरिकरा यथासम्भवं गृहीतायुधा भूत्वा वृषभाः 'उभयवर्गे' साधु-साध्वीलक्षणे 'गुप्ति' रक्षां कुर्वन्ति ॥ ३०९७ ॥ किञ्च
जे पुव्वि उवकरणा, गहिया अद्धाण पविसमाणेहिं ।
जं जं जोग्गं जत्थ उ, अद्धाणे तस्स परिभोगो ॥ ३०९८॥ 10 यानि पूर्व धर्मकरकादीन्युपकरणानि अध्वानं प्रविशद्भिगृहीतानि तेषां मध्ये यद् यस्मिन् काले योग्यं तस्य तदा अध्वनि परिभोगः कर्त्तव्यः ॥ ३०९८ ॥ ॥ अथाध्वकल्पभोगे विधिमाह--
सुक्खोदणो समितिमा, कंजुसिणोदेहि उण्हविय भुंजे।
मूलत्तरे विभासा, जतिऊणं णिग्गते विवेगो ॥ ३०९९ ॥ .. 15 "कंजुसिणोदेहि" त्ति इह च लाटदेशेऽवश्रावणं काञ्जिकं भण्यते । यदाह चूर्णिकृत्
अवसावणं लाडाणं कजियं भण्णइ ति ।। ततोऽवश्रावणेनोष्णोदकेन वा शुष्कौदनं शुष्कसमितिमाँश्च 'उप्णयित्वा' मृदुभवनार्थमुष्णीकृत्य भुञ्जीत । "जइऊणं निग्गएँ विवेगो" ति एवमादिकया यतनया यतित्वा यदा अध्वनो निर्गतास्तदा तमध्वकल्पमभुक्तं भुक्तोद्वरितं वा विविचन्ति, परिष्ठापयन्तीत्यर्थः । “मूलुत्तरे 20 विभास" ति ? मूलोत्तरगुणविषया विभाषा कर्तव्या । तद्यथा--->» शिष्यः पृच्छति-यो अध्वकल्प आधाकर्मिकः परिवासितश्च स तावदाधाकम्भिकत्वेनोत्तरगुणोपघाती परिवासितत्वेन तु मूलगुणोपघाती ततः किमेष भुज्यताम् ? उत प्रतिदिवसं लभ्यमानमाधाकर्म ? अंत्रोच्यतेअवकल्पो भुज्यतां नाधाकर्म ॥ ३०९९ ॥ ननु दोषद्वयदुष्टोऽसौ ? सूरिराह
कामं कम्मं तु सो कप्पो, णिसिं च परिवासितो।।
तहा वि खलु सो सेओ, ण य कम्मं दिणे दिणे ।। ३१०० ॥ 'कामम्' अनुमतम्-यदसावध्वकल्प एकं तावदाधाकर्म अपरं च 'निशि' रात्रौ परिवा११ एतदन्तर्गतमवतरणं भा० नास्ति ॥ २°नामध्वनि वहमानानां विधिं दर्शयति कां० ॥ ३ °चर्मकरका मो० ले० ॥ ४ एतन्मध्यगतमवतरणं कां० एव वर्तते ॥ ५१- एतदन्तर्गतः पाठः भा० नास्ति ॥ ६ अत्र केचिदाचार्यदेशीयाः प्रत्युत्तरयन्ति-आधाकर्म भोक्त. व्यम्, न पुनराधाकर्मिकः परिवासितोऽध्वकल्पः, यतो दोषद्वयदुष्टोऽसौ, ततः कथमेकदोषदुष्टमाधाकर्म परिहृत्यासौ भुज्यते? ॥ ३०९९ ॥ सूरिराह कां० ॥ ७ अवधारितमस्माभिः-यदः कां ॥
25
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org