________________
८७०
सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [ अध्वप्रकृते सूत्रम् ४६ अथ शर्करी न प्राप्यते ततो गुडेन घृतेन च मिश्रितानि । तेषामभावे खजूराणि घृतगुडमिश्राणि । तदप्राप्तौ सक्तकान् घृत-गुडमिश्रान् । तदलाभे पिण्याकोऽपि । घृत-गुडमिश्रो ग्रहीतव्यः । अथ » घृतं न प्राप्यते ततः खरसंज्ञकेन तैलेन मिश्रितः पिण्याकः ॥ ३०९३॥ एतेषां ग्रहणे गुणमुपदर्शयति
थोवा वि हणंति खुहं, न य तण्ह करेंति एतें खजंता।
सुक्खोदणं वऽलंभे, समितिम दंतिक चुण्णं वा ॥ ३०९४ ॥ 'एतानि' अग्रन्थिमादीनि खाद्यमानानि स्तोकान्यपि क्षुधं नन्ति, न चैतानि भुक्तानि सन्ति तृष्णां कुर्वन्ति, अत ईदृशोऽध्वकल्पो गृह्यते । ईदृशस्यालाभे 'शुष्कौदनः' शुष्ककूरः, तदलाभे 'समितिमाः' शुष्कमण्डकाः, तैदप्राप्तौ 'दन्तिकचूर्णः' तन्दुललोट्टः, यद्वा दन्तिकं-तन्दुलचूर्णः, 16चूर्ण तु-मोदकादिखाद्यकचूरिः; एतत् सर्वमपि घृत-गुडेन मिश्रयित्वा स्थापनीयम् । यदि शुद्धं
भक्तं लभन्ते ततो नाध्वकल्पं भुञ्जते, यावन्मात्रेण वा न्यून शुद्धं लभन्ते तावन्मात्रमध्वकल्पात् परिभुञ्जते, अनुपस्थापितेभ्यो वा प्रयच्छन्ति ॥ ३०९४ ॥ अध्वानं प्रविशद्भिरपरमपि यद् ग्रहीतव्यं तद् दर्शयति--
तिविहाऽऽमयमेसज्जे, वणभेसळे य सप्पि-महु-पट्टे।
सुद्धाऽसति तिपरिरए, जा कम णाउमद्धाणं ॥३०९५ ॥ त्रिविधाः-त्रिप्रकारा वातज पित्तज-श्लेष्मजभेदाद् ये आमयाः-रोगास्तेषां यानि भैषज्यानि, यानि च व्रणस्य भैषज्यानि सर्पिमिश्राणि मधुमिश्राणि वा व्रणेषु दत्त्वा पट्टैबध्यन्ते तानि गृहन्ति । सर्वमप्येतदध्वकल्पादिकं प्रथमतः शुद्धम् तदभावेऽशुद्धमपि 'त्रिपरिरययतनया' पञ्चकपरिहाण्या ग्रहीतव्यं यावदाधाकर्मेति । प्रमाणतः पुनरध्वानं स्तोकं वा बहुं वा ज्ञात्वा तदनुसारेणाध्वक20 ल्पोऽपि ग्रहीतव्यः ॥ ३०९५॥ एवं यदा सर्वमप्युत्पादितं भवति तदा किं विधेयम् ? इत्याह
अद्धाण पविसमाणो, जाणगनीसाऍ गाहए गच्छं ।
अह तत्थ न गाहिजा, चाउम्मासा भवे गुरुगा ॥ ३०९६ ॥ अध्वानं प्रविशन् सूरिः प्रथमत एव ज्ञस्य-गीतार्थस्य निश्रया-तं पुरस्कृत्य गच्छमध्वकल्पं ग्राहयति । अथ 'तत्र' अध्वप्रवेशे गच्छं न ग्राहयति ततश्चतुर्मासा गुरुका भवेयुः । अतो कप्पणाओ, पडिओ एकम्मि ( पक्कम्मि ) डाले बहुईओ।' ताणि फलाणि खंडाखंडिकयाणि" इति विशेषचूर्णौ । “अगंठिमाई ति कयलगाणि खंडाखंडिकयाणि" इति चूर्णौ ॥ .१२ एतदन्तर्गतः पाठः भा० नास्ति ॥ .. १ का मो० ले. विनाऽन्यत्र-रा यदि न भा० । रया न ता० त० डे० ॥ .२ एतचिहान्तर्गतः पाठः भा० का० एव वर्तते ॥ .३"थोवा वि. गाधा कंठा । पिण्णागस्स अलंमे कुरो सुकवितओ। तदलं'समिइमा' मंडोल्लियाओ। तदलंभे 'दंतिक' त्ति अशोकवादि । तदमे मोदकचूर्णादि घेत्तुं घयगुलेहिं मीसिजंति ।" इति चूर्णौ ॥ . ४ °म् । ततोऽध्वानं वहमाना यदि का० ॥ ५एतदन्तर्गतमवतरणं कां० एव वर्तते ॥
६ ज्यानि, यद् व्रणभङ्गार्थ घृत-मधु, यश्च व्रणबन्धार्थः चीवरपट्टः। सर्वम भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org