________________
5
८७२
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अध्वप्रकृते सूत्रम् ४६
सितः, तथापि 'खलु' निश्चितं 'स एव' अध्वकल्पः श्रेयान् न चाधाकर्म दिने दिने लभ्यमानं वरम् ॥ ३१०० ॥ कुतः ? इति चेद् उच्यते
जे ते कम्ममिच्छंति, निग्विणा ते न मे मता ॥ ३१०१ ॥ यदाधाकर्म दिने दिने लभ्यते तत्र 'असकृद्' अनेकवारं जीवोपघातः, अध्वकल्पे तु यदाधाकर्म तत्र 'सकृद्' एकमेव वारं जीवोपघातः, पूर्वहताश्च ते जीवा न दिने दिने हन्यन्ते, अतोऽध्वकल्प एव वरं नाधाकर्म । ये पुनः 'ते' अविदितप्रवचनरहस्यां अध्वकल्पं मूलोत्तरगुणोपघातिनं मत्वा न भुञ्जते, आधाकर्म तु केवलोत्तरगुणोपघातकमिति मत्वा दिने दिने 10 भोक्तुमिच्छन्ति, तेऽत्यन्तनिर्घृणाः सत्त्वेषु, अत एव न ते मम सम्मता इति ॥ ३१०१॥ • भैक्षद्वार एवं विशेषं दर्शयति -
आधाकम्माऽसति धातो, सई पुव्वहते त्तिय ।
( ग्रन्थाग्रम् -- ९५०० । सर्वग्रन्थाग्रम् - २१७२० )
कालुट्ठाईमादिसु, भंगेसु जतंति वितिय गादी |
लिंगविवेगोकते, चुडलीए मग्गतो अभए ।। ३१०२ ॥
कालोत्थायिप्रभृतिषु भङ्गेषु द्वितीयभङ्गमादौ कृत्वा यतन्ते । तथाहि — कालोत्थायी काल15 निवेशी स्थानस्थायी कालभोजी इत्यत्र प्रथमभङ्गे नास्ति यतना, सर्वथाऽपि शुद्धत्वात् ; द्वितीयादिषु तु सम्भर्वेति । तत्र द्वितीयभङ्गे अकालभोजीतिं कृत्वा खलिङ्गविवेकं विधाय रात्रौ परलिङ्गेन गृह्णन्ति । तृतीयचतुर्थभङ्गयो रस्थानस्थायीति कृत्वा यद् गवादिभिराक्रान्तं स्थानं तत्र तिष्ठन्ति । पञ्चमादिषु चतुर्षु भङ्गेष्वकालनिवेशीति कृत्वा कालिकायां तिष्ठन्तश्चुडलिकया संस्तारक भूम्यादिषु बिलादिकं गवेषयन्ति । नवमादिषु षोडशान्तेष्वष्टसु भङ्गेषु अकालोत्थायीति 20 कृत्वा रात्रौ गन्तव्ये उपस्थिते 'मार्गतः' पृष्ठतः स्थिता गच्छन्ति । व सति ? इत्याह – 'अभये ' यदि पृष्ठतो गच्छतां स्तेनादिभयं न भवेत् । भक्तार्थनं तु यः सार्थोऽकालस्थायी तत्र निर्भये पुरतो गत्वा तथा समुद्दिशन्ति यथा समुद्दिष्टे सार्थस्तत्र प्राप्नोति, वसतिं च मध्ये गृह्णन्ति
॥ ३१०२ ॥ तथा
25
सावय अण्णटुकडे, अट्ठा सुक्खें सय जोइ जतणाए ।
तेणे वयणचडगरं तत्तो व अवाउडा होंति ॥ ३१०३ ॥
श्वापदभयेऽन्यैः- सार्थिकैरात्मार्थं यो वृतिपरिक्षेपः कृतस्तत्र तिष्ठन्ति । तदभावे "अट्ट" चि साधूनामर्थाय कृते वृतिपरिक्षेपे तिष्ठन्ति । तदभावे "सुक्खे सय" ति शुष्ककण्टकाभिः स्वयमेव वृतिपरिक्षेपं कुर्वन्ति । " जोइ जयणाए " ति यदि श्वापदभये ज्योतिषा - अमिना कार्य ततः परकृतमग्निं सेवन्ते । अथ ते तं सेवितुं न प्रयच्छन्ति ततः परकृतमेवाग्निं गृहीत्वा 30 प्राशुकदारुभिः प्रज्वालयन्ति । यत्र तु स्तेनभयं तत्र तथा 'वचनचटकरं ' वागाडम्बरं कुर्वन्ति
१स्या आचार्यदेशीया अध्य° कां ॥ २एतदन्तर्गतमवतरणं भा० नास्ति ॥ ३° पूर्वोक्तभङ्गे कां० ॥ ४ 'वति । तामेव दर्शयति – “लिंगविवेग" इत्यादि, तत्र कां० ॥ ५ न भक्तपानं गृ° कां० ॥ ६° कडे, सुक्खे सयमेव जोइ ता० ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org