SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ३१०१-८] प्रथम उद्देशः । ८७३ यथा ते स्तेना भयादेव शीघ्रं नश्यन्ति । अथवा यतः - यस्या दिशस्ते समागच्छन्ति तदभि मुखीभूय अप्रावृता भवन्ति ॥ ३१०३ ॥ • एवंविधं विधिं कुर्वाणा अध्वनो निस्तरन्ति । अथायं व्याघातो भवेत् - सावय- तेणपरद्धे, सत्थे फिडिया ततो जति हवेजा । अंतिमगा विंटिय, यिट्टणय गोउलं कहणा || ३१०४ ॥ महाटव्यां सिंहादिभिः श्वापदैः स्तेनैर्वा सार्थः प्रारब्धः सन् दिशोदिशि विप्रणष्टः, साधवोऽप्येकां दिशं गृहीत्वा विप्रणष्टाः 'ततः' सार्थात् स्फिटिता यदि भवेयुः, ततो दिग्भागमजानन्तो वनदेवतायाः कायोत्सर्गं कुर्वन्ति सा च व्रजिका विकुर्वति, अन्तिमायां च ब्रजिकायामुपकरणविण्टिकां विस्मारयति, तस्या ग्रहणार्थं साधूनां निवर्तनम् यावत् तत्रागताः तावद् गोकुलं न पश्यन्ति, ततो गुरूणां समीपे कथनम्, यथा— नास्ति सा जिकेति ॥ ३१०४ ॥ 10 इदमेव स्पष्टयति अाणम्मि महंते, वहू॑तो अंतरा तु अडवीए । सत्थो तेणपरद्धो, जो जत्तो सो ततो नट्ठो ।। ३१०५ ।। संजयजणो य सव्वो, कंची सत्थिल्लयं अलभमाणो । -पंथं अजाणमाणो, पविसेज महाडविं भीमं ।। ३१०६ ॥ अध्वनि महति वर्त्तमानः सार्थः सर्वोऽप्यन्तरा महाटव्यां स्तेनैः प्रारब्धः, ततश्च यो यत्र वर्त्तते स तत एव 'नष्टः ' पलायितः || ३१०५ ॥ 15 संयतजनश्च सर्वः कञ्चिदपि सार्थिकमलभमानः पन्थानं चाजानन् भीमां महाटवीं प्रविशेत् ॥ ३१०६ ॥ ततः किं कर्तव्यम् ? इत्याह सव्वत्थामेण ततो, वि सव्वकजुञ्जया पुरिससीहा । वसभा गणीपुरोगा, गच्छं धारिति जतणाए ।। ३१०७ ॥ ततः ‘सर्वस्थाम्न।' सर्वादरेण वृषभाः 'सर्वकार्योद्यताः' सकल गच्छ कार्यैकबद्धकक्षाः 'पुरुषसिंहाः' सातिशयपराक्रमृतया पुरुषाणां मध्ये सिंहकल्पाः 'गणिपुरोगाः' आचार्यपुरस्सरा ईदृश्यां विषमदशायां प्रपतन्तं गच्छं यतनया धारयन्ति ॥ ३१०७ ॥ तामेवाह जइ तत्थ दिसामूढो, हवेज गच्छो सबाल- बुड्डो उ । वणदेवयाऍ ताहे, णियमपगंपं तह करेंति ।। ३१०८ ॥ यदि ‘तत्र’ अटव्यां सबाल-वृद्धोऽपि गच्छो दिङ्मूढो भवेत् ततो नियमेन - निश्चयेन प्रकम्पःदेवताया आकम्पो यस्मादिति नियमप्रकम्पः - कायोत्सर्गस्तं वनदेवताया आकम्पनार्थं तथा कुर्वन्ति यथा सा आकम्पिता सती दिग्भागं वा पन्थानं वा कथयति ॥ ३१०८ ॥ यतः - १ एतदन्तर्ववतरणं भा० नास्ति ॥ २ विधिं विदधाना अध्य कां० ॥ ३ 'त् । कीदृश: ? इति अत आह— अद्धाणम्मि कां० । नास्त्यस्यां प्रतौ " सावयतेण परद्धे . " ३१०४ गाथा तट्टीका च । चूर्णिकृता विशेषचूर्णिकृता बृहद्भाष्यकृता चापि नेयं गाथाऽङ्गीकृता दृश्यते ॥ ४ अथवा कां० ॥ Jain Education International 5 For Private & Personal Use Only 20 25 www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy