________________
८७४
15
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [अध्वप्रकृते सूत्रम् ४६ सम्मद्दिट्ठी देवा, वेयावच्चं करेंति साहूणं ।।
गोकुलविउव्वणाए, आसास परंपरा सुद्धा ॥ ३१०९ ॥ ये सम्यग्दृष्टयो देवास्ते साधूनां 'वैयावृत्त्यं' भक्तपानोपष्टम्भादिना द्रव्यापदायुद्धरणात्मकं कुर्वन्तीति स्थितिः । ततः सम्यग्दृष्टिदेवता काचिद् गोकुलं विकुर्वति । साधूनां तदर्शनेना5श्वासः । ततस्तया देवतया साधवो गोकुलपरम्परया ताक्द् नीता यावज्जनपदं प्राप्ताः । तया एवं नीता अपि ते 'शुद्धाः' निर्दोषाः ॥ ३१०९ ॥ अमुमेवार्थ सविशेषमाह
सावय-तेणपरद्धे, सत्थे फिडिया तओ जइ हविजा । ____ अंतिमवइगा विंटिय, नियट्टणय गोउलं कहणा ॥ ३११० ॥ श्वापदैः स्तेनैश्च प्रारब्धे नष्टे च सार्थे 'ततः' सार्थात् स्फिटिता यदि भवेयुः ततः कायोत्सर्गेण 10 देवतामाकम्पयेत् । आकम्पिता च काचित् पन्थानं कथयेत् , काचिद् वजिकाः परम्परया विकुळ जनपदं प्रापयेत् । अन्तिमायां च बजिकायामुपकरणविण्टिकामुपधिं [वा] विस्मारयेत् । तदर्थं साधूनां निवर्तना । यावत् तत्रागतास्तावद् गोकुलं न पश्यन्ति । ततो गुरूणां समीपे कथनम् , यथा-नास्ति सा जिकेति । गुरुभिश्च ज्ञातम् , यथा-एतत् सर्व देवताकृतमिति ॥ ३११०॥
भंडी-बहिलग-भरवाहिगेसु एसा तु वणिया जतणा।
ओदरिय विवित्तेसु य, जयण इमा तत्थ णातव्या ॥ ३१११॥ भण्डी-बहिलक-भारवाहिसार्थेषु 'एषा' अनन्तरोक्ता यतना वर्णिता । अथौदरिकेषु 'विवितेषु च' कार्पटिकेष्वियं यतना ज्ञातव्या ॥ ३१११ ॥ तामेवाह
ओदरिपत्थयणाऽसइ, पत्थयणं तेसि कन्द-मूल-फला ।
अग्गहणम्मि य रज्ज , वलिंति गहणं च जयणाए ॥ ३११२ ॥ आगाढे राजद्विष्टादिकार्ये औदरिकादिभिः सह गम्यमाने 'पथ्यदनस्य' शम्बलस्याऽभावे यदि 'तेषाम्' औदरिकादीनां कन्द-मूल-फलान्याहारो भवेत् ततः 'साधूनामपि तमेवाहारं वयं प्रयच्छन्ति । ये च तत्रापरिणतास्ते कन्दादि न गृह्णन्ति । अग्रहणे च ते सार्थिका अपरिणतानां भीषणार्थ रज्जूवलयन्ति, ततो यतनया ग्रहणं कुर्वन्ति ॥ ३११२ ॥ इदमेव स्पष्टयति
कंदाइ अभुंजते, अपरिणए सत्थिगाण कहयंति ।।
पुच्छा वेधासे पुण, दुक्खिहरा खाइउं पुरतो ।। ३११३॥ अपरिणते कन्दादिकमभुञ्जाने वृषभाः सार्थिकानां कथयन्ति-एतान् तथा भापयत . १ प्राप्ताः । तत्र चापश्चिमे गोकुले तया साधूनासुपकरणविण्टिका विस्मारिता । तदर्थ च प्रतिनिवृत्ता यावद् गोकुलं न पश्यन्ति । ततो विण्टिकां गृहीत्वा प्रत्यागत्य गुरूणामन्तिके यथावदालोचयन्ति । ततो ज्ञातं गुरुभिः, यथा-एतत् सर्व देवताकृतमिति । अत्र च 'शुद्धाः' निर्दोषाः, न प्रायश्चित्तमाज इति ॥ ३१०९ ॥ भंडी-वहिलग भा० । नास्त्यस्यां प्रतौ "सावय-तेणपरद्धे." ३११० गाथा तद्वृत्तिश्च ।। २°षाः, अशठत्वात् ॥ ३१०९ ॥ अमु का० ॥ ३°भिरपि सह भ० का० ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org