Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 296
________________ भाप्यगाथाः ३०३७-४४] प्रथम उद्देशः । इहरा वि ता न कप्पइ, अद्धाणं किं तु राइविसयम्मि । अत्थावनी संसइ, कप्पड़ कजे दिया नूणं ।। ३०४०॥ इतरथाऽपि तावन्न कल्यतेऽध्वानं गन्तुं 'किन्तु' किं पुना रात्रिविषये ? तत्र सुतरां न कल्पते । यतश्च सूत्रं रात्रिविषयं प्रतिषेधं विधत्ते अतः 'अर्थापत्तिः' सामर्थ्यगम्यता सैव 'शंसति' कथयति-नूनं ज्ञायते दिवा 'कार्ये' ज्ञानादौ समुत्पन्नेऽध्यानमपि गन्तुं कल्पते । ॥ ३०४० ॥ अथाध्वानमेव भेदतः प्ररूपयन्नाह अद्धाणं पि य दुविहं, पंथो मग्गो य होइ नायव्यो । पंथम्मि नत्थि किंची, मग्गो सग्गामों गुरु आणा ।। ३०४१ ॥ "अद्धाणं" ति नपुंसकनिर्देशः प्राकृतत्वात् , ततो» अध्वा द्विविधः, तद्यथा-पन्था मार्गश्च । पन्था नाम-यत्र ग्राम-नगर-पल्ली-वजिकानां 'किश्चिद्' एकतरमपि नास्ति । यत्र पुन-10 ग्रामानुग्रामपरम्परया वसिमं भवति स सग्रामो मार्ग उच्यते । द्वयोरपि रात्री गच्छतश्चत्वारो गुरुकाः; दिवा तु पथि चतुर्गुरवः, मार्गे चतुर्लघवः, आज्ञादयश्च दोषाः ॥ ३०४१ ॥ तं पुण गम्मिज दिवा, रत्तिं वा पंथ गमण मग्गे वा । रत्तिं आएसदुगं, दोसु बि गुरुगा य आणादी ॥ ३०४२ ।। स पुनरध्वा दिवा गम्येत रात्रौ वा, तच्चोभयमपि गमनं पथि वा मार्गे वा स्यात् । तत्र 15 रात्रिशब्दे आदेशद्वयम् । केचिदाचार्या ब्रुवते-सन्ध्या यतो राजते-शोभते तेन निरुक्तिशैल्या रात्रिरुच्यते, यस्तु सन्ध्याया अपगमः स विकालः । अन्ये तु ब्रुवते—यतः सन्ध्याया अपगमे चौर-पारदारिकादयो रमन्ते ततोऽसौ रात्रिरिति परिभाष्यते, सन्ध्यायां तु यत एते विरमन्ति ततः सा विकालः । पन्थानं वा मार्ग वा यदि रात्रौ विकाले वा गच्छति तदा द्वयोरपि चत्वारो गुरवः आज्ञादयश्च दोषाः । इयमन्याचार्यपरिपाट्या गाथा ततो न पौनरुत्यम् 20 ॥३०४२ ॥ तत्र मार्गे तावद दोषानुपदिदर्शयिषुराह मिच्छत्ते उड्डाहो, विराहणा होइ संजमा-ऽऽयाए । रीयाइ संजमम्मी, छकाय अचक्खुविसयम्मि ॥ ३०४३ ॥ रात्रौ मार्गे गच्छतः साधून दृष्ट्वा कश्चिदभिनवधर्मा मिथ्यात्वं गच्छेत् । उड्डाहो वा प्रवचनस्य भवति । विराधना वा संयमा-ऽऽत्मविषया भवेत् । तत्र संयमविराधनायामीर्यासमिति-25 प्रभृतिकाः समितीन शोधयति, रात्रौ वाऽचक्षुर्विषये षटकाया विराध्यन्ते । एष द्वारगाथासङ्केपार्थः ॥ ३०४३ ॥ साम्प्रतमेनामेव सविस्तरं विवृणोति किं मण्णे निसि गमणं, जतीण सोहिंति वा कहं इरियं । जइवेसेण व तेणा, अडंति गहणाइ उड्डाहो ॥ ३०४४ ॥ अमीषां परलोककार्योद्यतानां यतीनां किमर्थं 'निशि' रात्रौ गमनम् ? किं मन्ये दुष्टचित्ता 30 अमी ? कथं वा रात्रावटन्तोऽमी ई- शोधयन्ति ? यथा चैतदसत्यं तथा सर्वमप्यमीषामसत्यमिति मिथ्यात्वं स्थिरीकृतमुत्पादितं वा भवति । तथा 'यतिवेषेण नूनममी स्तेनाः पर्यटन्ति' ११ एतचिह्नगतः पाठः भा० त० डे. नास्ति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364