Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 273
________________ ८३४ सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ रात्रिभक्तप्रकृते सू० ४३ . आणेइ इहं जोई, अयगोलं मा निवारेह ॥ २९४६ ॥ यदा गृही दक्षतया खयमेव ज्योतिरानयति तं च कोऽप्यगीतार्थो वारयति तदा स वक्तव्यः-अस्माभिरभणितः स्वयोगेन यद्येष गृहस्थ आत्मनोऽर्थ 'नुः' इति संशये उताहो नु अस्मदर्थ 'इह' अस्मिन् स्थाने ज्योतिरानयति ततः किमस्माकमेतदीयया चिन्तया ? । अत 5 एनमयोगोलकल्पं मा निवारयतेति ॥ २९४६ ॥ गिहिणं भणंति पुरओ, अइतमसमिणं न पस्सिमो किंचि । आणति जइ अवुत्ता, तहेव जयणा निवारंते ॥ २९४७ ॥ अथ ते गृहस्थाः स्वयं नानयन्ति ततो गीतार्था अन्यव्यपदेशेन तेषां गृहिणां पुरतो भणन्ति–'अतितमः' अतीवान्धकारमिदम् , न पश्यामो वयं किञ्चिदपीति । यद्येवम् 'अनुक्ताः' 10साक्षादभणिताः सन्तो ज्योतिरानयन्ति ततः सुन्दरमेव । यश्च तत्र निवारयति तस्य 'यतना' तथैव नोदना कार्या ॥ २९४७ ॥ अथ ते गृहस्था अन्यव्यपदेशेनोक्तं नावबुध्यन्ते ततः किं कर्त्तव्यम् ? इत्याह गंतूण य पन्नवणा, आणण तह चेव पुधभणियं तु । भणण अदायण असई, पच्छायण मल्लगाईसु ॥ २९४८॥ 15 गीतार्थैर्गत्वा चशब्दादगत्वाऽपि तत्र स्थितैर्गृहिणां प्रज्ञापना विधेया, यथा-न पश्यामो वयमत्र बिलादिकं स्थाणु-कण्टकादिकं वा, अत उद्योतो यथा भवति तथा कुरुत । एवं परिस्फुटमभिहिताः सन्तस्ते प्रदीपस्यानयनं कुर्वन्ति । यश्चागीतार्थो निवारयति तस्य 'तथैव' नोदनायाम् "अयगोलं मा निवारेह" (गा० २९४६) इत्यादिकं पूर्वभणितमेव द्रष्टव्यम् । "भणण" ति गृहिषु 'प्रदीपमानय' इति प्रज्ञाप्यमानेषु यो ब्रवीति 'किमेवं सावधप्रवृत्तिं कार20 यसि ?' इति तस्याग्रे मिथ्यादुष्कृतभणनं कर्त्तव्यम् । “असई" ति अथ गृहस्थः प्रदीपमानेतुं नेच्छति ततः "अदायण पच्छायण मल्लगाईसु" त्ति मृगाणामदर्शनाय मल्लकादिभिः प्रच्छाय प्रदीपः खयमानेतन्यः ॥ २९४८ ॥ अथेदमेवोत्तराद्ध विवरीषुराह गिहि जोइं मग्गंतो, मिगपुरओ भणइ चोइओ इणमो। णाभोगेण मउत्तं, मिच्छाकारं भणामि अहं ॥ २९४९ ॥ 25 गृहिणां समीपे 'ज्योतिः' प्रदीपं 'मृगपुरतः' मृगाणां शृण्वतां मार्गयेन् यदि केनचिन्नोदितः-किमेवं सावधं कारयसि ? इति; ततोऽसौ गीतार्थ इत्थं भणति-अनाभोगेन मयेदमुक्तम् , अतोऽहं मिथ्याकारं भणामि, मिथ्यादुष्कृतं प्रयच्छामीत्यर्थः ॥ २९४९ ॥ एमेव जइ परोक्खं, जाणंति मिगा जहेइणा भणिओ। तत्थ वि चोइजंतो, सहसाऽणाभोगओ भणइ ॥ २९५० ॥ 30 एवमेव यदि मृगाणां परोक्षं गृहे गत्वा गृहस्थो भणितः तदाऽपि यदि ते मृगाः कथमपि __जानन्ति, यथा-एतेन साधुना गृहस्थः 'भणितः' प्रदीपानयनाय प्रेरितः; तत्राप्यपरेण नोद्यमानः सन् भणति—सहसाकारेणानाभोगतो वा मयेदमुक्तम् , मिथ्या मे दुष्कृतमिति ॥ २९५० ॥ १°तितामसम्' अतीव सान्ध भा० ॥ २°यन् अगीतार्थेन केन भा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364