Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 274
________________ भाष्यगाथाः २९४६-५५] प्रथम उद्देशः। ८३५ गिहिगम्मि अणिच्छंते, सयमेवाणेइ आवरित्ताणं । जत्थ दुगाई दीवा, तत्तो मा पच्छकम्मं तु ॥ २९५१॥ अथ गृही प्रदीपमानेतुं नेच्छति ततः स्वयमेव मल्लकसम्पुटेन वा कपरेण वा कल्पेन वा प्रदीपमावृत्यानयति । तत्रापि यत्र गृहे 'द्विकादयः' द्वित्रिप्रभृतयः दीपाः ततो गृहादानयति । कुतः? इत्याह-"मा पच्छकम्मं तु" त्ति यत्रैक एव दीपो भवति तत्रापरप्रदीपकरणलक्षणं । पश्चात्कर्म मा भूदिति कृत्वा ततः प्रदीपो नानेतव्यः ॥ २९५१ ॥ ततश्च उजोविय आयरिओ, किमिदं अहगं मि जीवियट्ठीओ। आयरिए पनवणा, नट्ठो य मओ य पबइओ ॥ २९५२ ॥ उद्योतिते प्रतिश्रये सति आचार्यो भणति हन्त ! किमिदं भवता कृतम् ? । स प्राहक्षमाश्रमणाः ! अहमद्यापि जीवितार्थी अतो बिलादिपरिज्ञानार्थ मयेत्थं कृतम् । तत आचार्यों 10 मातृस्थानेन तस्य प्रज्ञापनां करोति–हन्त ! मृत एव त्वम् , कुतो भवतो जीवितम् ? यत एवं कुर्वन् प्रव्रजितः 'नष्टश्च' सन्मार्गपरिभ्रष्टो 'मृतश्च' संयमजीवितविरहितो भवतीति ॥२९५२॥ . . अथ पूर्वोक्तमेवार्थ विशेषयन्नाह-- तस्सेव य मग्गेणं, वारणलक्खेण निंति वसभा उ। भूमितियम्मि उ दिद्वे, पञ्चप्पिय मो इमा मेरा ॥ २९५३॥ 15 'तस्यैव' ज्योतिरानेतुः साधोः 'मार्गेण' पृष्ठतः 'वारणालक्ष्येण' निवारणव्याजेन वृषभा निर्गच्छन्ति । ततः 'भूमित्रिके' उच्चार-प्रश्रवण-कालभूमिलक्षणे दृष्टे सति प्रदीपे प्रत्यर्पिते "मो". इति निपातः पादपूरणे इयं 'मर्यादा' सामाचारी ॥ २९५३ ॥ तामेवाह-- खरंटण वेंटिय भायण, गहिए निक्खिवण बाहि पडिलेहा । वसभेहि गहियचित्ता, इयरें पसाइंति कल्लाणं ॥ २९५४ ॥ 20 . येन प्रदीपानयनायाविरतकः प्रेरितो येन वा प्रदीप आनीतः तस्य गुरुभिः खरण्टना कर्तव्या। ततोऽसौ वेण्टिकां भाजनानि च गृहीत्वा "निक्खिवण" ति बहिः स्थाप्यते, निर्गच्छास्माकं गच्छाद् न त्वया कार्यमिति । ततोऽसौ कैतवनिष्काशितो बहिःस्थितैः प्रतिलेखयति प्रतिक्रमणं च विदधाति । ततो वृषभैर्गृहीतचित्ताः 'इतरे' मृगा गुरुं 'प्रसादयन्ति' प्रसन्नं कुर्वन्ति । ततो गुरवस्तं भूयोऽप्यानाय्य पञ्चकल्याणकं प्रायश्चित्तं प्रयच्छन्ति ॥ २९५४ ॥ अथ कथं वृषभा मृगाणां चित्तग्रहणं कुर्वन्ति ? इत्याह तुम्ह य अम्ह य अट्ठा, एसमकासी न केवलं सभया । खामेमु गुरुं पविसउ, बहुसुंदरकारओ अम्हं ॥ २९५५ ॥ आर्याः ! युष्माकमस्माकं च सर्पादिप्रत्यपायरक्षणार्थमेष एवमकार्षीत् , न केवलं खभयादेव, अत आगच्छत येन सर्वेऽपि 'गुरु' क्षमाश्रमणं क्षमयामः, प्रविशतु 'बहुसुन्दरकारकः' प्रत्यपाय-20 रक्षकतया बहुकल्याणकरोऽस्माकं भूयः प्रतिश्रयम् । एवमुक्ता मृगा वृषभैः सह समागत्य गुरु १ एतदन्तर्गतः पाठः भा० त० डे. नास्ति ॥२ND एतन्मध्यगतमवतरणं कां. एव वर्तते ॥ ३°तः प्रत्युपेक्षते प्रतिक्रमणं भा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364