________________
भाष्यगाथाः २९४६-५५] प्रथम उद्देशः।
८३५ गिहिगम्मि अणिच्छंते, सयमेवाणेइ आवरित्ताणं ।
जत्थ दुगाई दीवा, तत्तो मा पच्छकम्मं तु ॥ २९५१॥ अथ गृही प्रदीपमानेतुं नेच्छति ततः स्वयमेव मल्लकसम्पुटेन वा कपरेण वा कल्पेन वा प्रदीपमावृत्यानयति । तत्रापि यत्र गृहे 'द्विकादयः' द्वित्रिप्रभृतयः दीपाः ततो गृहादानयति । कुतः? इत्याह-"मा पच्छकम्मं तु" त्ति यत्रैक एव दीपो भवति तत्रापरप्रदीपकरणलक्षणं । पश्चात्कर्म मा भूदिति कृत्वा ततः प्रदीपो नानेतव्यः ॥ २९५१ ॥ ततश्च
उजोविय आयरिओ, किमिदं अहगं मि जीवियट्ठीओ।
आयरिए पनवणा, नट्ठो य मओ य पबइओ ॥ २९५२ ॥ उद्योतिते प्रतिश्रये सति आचार्यो भणति हन्त ! किमिदं भवता कृतम् ? । स प्राहक्षमाश्रमणाः ! अहमद्यापि जीवितार्थी अतो बिलादिपरिज्ञानार्थ मयेत्थं कृतम् । तत आचार्यों 10 मातृस्थानेन तस्य प्रज्ञापनां करोति–हन्त ! मृत एव त्वम् , कुतो भवतो जीवितम् ? यत एवं कुर्वन् प्रव्रजितः 'नष्टश्च' सन्मार्गपरिभ्रष्टो 'मृतश्च' संयमजीवितविरहितो भवतीति ॥२९५२॥ . . अथ पूर्वोक्तमेवार्थ विशेषयन्नाह--
तस्सेव य मग्गेणं, वारणलक्खेण निंति वसभा उ।
भूमितियम्मि उ दिद्वे, पञ्चप्पिय मो इमा मेरा ॥ २९५३॥ 15 'तस्यैव' ज्योतिरानेतुः साधोः 'मार्गेण' पृष्ठतः 'वारणालक्ष्येण' निवारणव्याजेन वृषभा निर्गच्छन्ति । ततः 'भूमित्रिके' उच्चार-प्रश्रवण-कालभूमिलक्षणे दृष्टे सति प्रदीपे प्रत्यर्पिते "मो". इति निपातः पादपूरणे इयं 'मर्यादा' सामाचारी ॥ २९५३ ॥ तामेवाह--
खरंटण वेंटिय भायण, गहिए निक्खिवण बाहि पडिलेहा ।
वसभेहि गहियचित्ता, इयरें पसाइंति कल्लाणं ॥ २९५४ ॥ 20 . येन प्रदीपानयनायाविरतकः प्रेरितो येन वा प्रदीप आनीतः तस्य गुरुभिः खरण्टना कर्तव्या। ततोऽसौ वेण्टिकां भाजनानि च गृहीत्वा "निक्खिवण" ति बहिः स्थाप्यते, निर्गच्छास्माकं गच्छाद् न त्वया कार्यमिति । ततोऽसौ कैतवनिष्काशितो बहिःस्थितैः प्रतिलेखयति प्रतिक्रमणं च विदधाति । ततो वृषभैर्गृहीतचित्ताः 'इतरे' मृगा गुरुं 'प्रसादयन्ति' प्रसन्नं कुर्वन्ति । ततो गुरवस्तं भूयोऽप्यानाय्य पञ्चकल्याणकं प्रायश्चित्तं प्रयच्छन्ति ॥ २९५४ ॥ अथ कथं वृषभा मृगाणां चित्तग्रहणं कुर्वन्ति ? इत्याह
तुम्ह य अम्ह य अट्ठा, एसमकासी न केवलं सभया ।
खामेमु गुरुं पविसउ, बहुसुंदरकारओ अम्हं ॥ २९५५ ॥ आर्याः ! युष्माकमस्माकं च सर्पादिप्रत्यपायरक्षणार्थमेष एवमकार्षीत् , न केवलं खभयादेव, अत आगच्छत येन सर्वेऽपि 'गुरु' क्षमाश्रमणं क्षमयामः, प्रविशतु 'बहुसुन्दरकारकः' प्रत्यपाय-20 रक्षकतया बहुकल्याणकरोऽस्माकं भूयः प्रतिश्रयम् । एवमुक्ता मृगा वृषभैः सह समागत्य गुरु
१ एतदन्तर्गतः पाठः भा० त० डे. नास्ति ॥२ND एतन्मध्यगतमवतरणं कां. एव वर्तते ॥ ३°तः प्रत्युपेक्षते प्रतिक्रमणं भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org