________________
८३४ सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ रात्रिभक्तप्रकृते सू० ४३
. आणेइ इहं जोई, अयगोलं मा निवारेह ॥ २९४६ ॥ यदा गृही दक्षतया खयमेव ज्योतिरानयति तं च कोऽप्यगीतार्थो वारयति तदा स वक्तव्यः-अस्माभिरभणितः स्वयोगेन यद्येष गृहस्थ आत्मनोऽर्थ 'नुः' इति संशये उताहो नु अस्मदर्थ 'इह' अस्मिन् स्थाने ज्योतिरानयति ततः किमस्माकमेतदीयया चिन्तया ? । अत 5 एनमयोगोलकल्पं मा निवारयतेति ॥ २९४६ ॥
गिहिणं भणंति पुरओ, अइतमसमिणं न पस्सिमो किंचि ।
आणति जइ अवुत्ता, तहेव जयणा निवारंते ॥ २९४७ ॥ अथ ते गृहस्थाः स्वयं नानयन्ति ततो गीतार्था अन्यव्यपदेशेन तेषां गृहिणां पुरतो भणन्ति–'अतितमः' अतीवान्धकारमिदम् , न पश्यामो वयं किञ्चिदपीति । यद्येवम् 'अनुक्ताः' 10साक्षादभणिताः सन्तो ज्योतिरानयन्ति ततः सुन्दरमेव । यश्च तत्र निवारयति तस्य 'यतना' तथैव नोदना कार्या ॥ २९४७ ॥ अथ ते गृहस्था अन्यव्यपदेशेनोक्तं नावबुध्यन्ते ततः किं कर्त्तव्यम् ? इत्याह
गंतूण य पन्नवणा, आणण तह चेव पुधभणियं तु ।
भणण अदायण असई, पच्छायण मल्लगाईसु ॥ २९४८॥ 15 गीतार्थैर्गत्वा चशब्दादगत्वाऽपि तत्र स्थितैर्गृहिणां प्रज्ञापना विधेया, यथा-न पश्यामो
वयमत्र बिलादिकं स्थाणु-कण्टकादिकं वा, अत उद्योतो यथा भवति तथा कुरुत । एवं परिस्फुटमभिहिताः सन्तस्ते प्रदीपस्यानयनं कुर्वन्ति । यश्चागीतार्थो निवारयति तस्य 'तथैव' नोदनायाम् "अयगोलं मा निवारेह" (गा० २९४६) इत्यादिकं पूर्वभणितमेव द्रष्टव्यम् ।
"भणण" ति गृहिषु 'प्रदीपमानय' इति प्रज्ञाप्यमानेषु यो ब्रवीति 'किमेवं सावधप्रवृत्तिं कार20 यसि ?' इति तस्याग्रे मिथ्यादुष्कृतभणनं कर्त्तव्यम् । “असई" ति अथ गृहस्थः प्रदीपमानेतुं नेच्छति ततः "अदायण पच्छायण मल्लगाईसु" त्ति मृगाणामदर्शनाय मल्लकादिभिः प्रच्छाय प्रदीपः खयमानेतन्यः ॥ २९४८ ॥ अथेदमेवोत्तराद्ध विवरीषुराह
गिहि जोइं मग्गंतो, मिगपुरओ भणइ चोइओ इणमो।
णाभोगेण मउत्तं, मिच्छाकारं भणामि अहं ॥ २९४९ ॥ 25 गृहिणां समीपे 'ज्योतिः' प्रदीपं 'मृगपुरतः' मृगाणां शृण्वतां मार्गयेन् यदि केनचिन्नोदितः-किमेवं सावधं कारयसि ? इति; ततोऽसौ गीतार्थ इत्थं भणति-अनाभोगेन मयेदमुक्तम् , अतोऽहं मिथ्याकारं भणामि, मिथ्यादुष्कृतं प्रयच्छामीत्यर्थः ॥ २९४९ ॥
एमेव जइ परोक्खं, जाणंति मिगा जहेइणा भणिओ।
तत्थ वि चोइजंतो, सहसाऽणाभोगओ भणइ ॥ २९५० ॥ 30 एवमेव यदि मृगाणां परोक्षं गृहे गत्वा गृहस्थो भणितः तदाऽपि यदि ते मृगाः कथमपि __जानन्ति, यथा-एतेन साधुना गृहस्थः 'भणितः' प्रदीपानयनाय प्रेरितः; तत्राप्यपरेण नोद्यमानः सन् भणति—सहसाकारेणानाभोगतो वा मयेदमुक्तम् , मिथ्या मे दुष्कृतमिति ॥ २९५० ॥ १°तितामसम्' अतीव सान्ध भा० ॥
२°यन् अगीतार्थेन केन भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org