Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
८४९
भाष्यगाथाः ३००१-८] प्रथम उद्देशः ।
उद्दद्दरे सुभिक्खे, अद्धाणपवजणं तु दप्पेणं । लहुगा पुण सुद्धपए, जं वा आवजई जत्थ ॥ ३००३ ॥ नाणट्ठ दंसणट्ठा, चरित्तट्ठा एवमाइ गंतव्यं ।
उवगरण पुवपडिलेहिएण सत्थेण गंतव्वं ॥ ३००४॥ गाथाद्वयमपि प्राग् (गा० २८७८-७९) व्याख्यातम् ॥ ३००३ ॥ ३००४॥ 5 तत्राध्वनि प्रविशतां विधिमाह
अद्धाण पविसमाणा, गुरुं पवादिति ते गता पुरतो ।
अह तत्थ न वादेंती, चाउम्मासा भवे गुरुगा ॥ ३००५ ॥ अध्वानं प्रविशन्तः प्रथममेव 'गुरुम्' आचार्य प्रवादयन्ति, गुरोः प्रवादमुत्थापयन्तीत्यर्थः । यथा-'ते' अस्माकमाचार्याः 'पुरतः' पूर्वमेवान्येन सार्थेन सह गताः अत एव वयं त्वरामहे, 10 कथं नाम तेषां समीपं क्षिप्रमेव प्राप्नुयाम ? । अथ तत्राध्वनि प्रविशन्त एवं न प्रवादयन्ति ततश्चतुर्मासा गुरुकाः प्रायश्चितम् ॥ ३००५ ॥
गुरुसारक्खणहेउं, तम्हा थेरो उ गणधरो होइ ।
विहरइ य गणाहिवई, अद्धाणे भिक्खुभावेणं ॥ ३००६ ॥ तस्माद् गुरूणां संरक्षणहेतोर्यः 'स्थविरः' वयोवृद्धः स गणधरो भवति, गणधराकारधारकः 15 क्रियत इत्यर्थः । यस्तु गणाधिपतिः सः 'अध्वनि' मार्गे खयं 'भिक्षुभावेन' सामान्यसाधुवेषण विहरति ॥ ३००६ ॥ कुतः ? इति चेद् उच्यते--कदाचिदध्वनि साधवः स्तेनकैर्विविक्ताः क्रियेरन् ततस्ते स्तेनकाश्चिन्तयेयु:
हयनायगा न काहिंति उत्तरं राउले गणे वा वि।
अम्हं आहिपइस्स व, नायग-मित्ताइएहिं वा ॥ ३००७ ॥ हतो नायकः-आचार्यों येषां ते हतनायकास्तथाभूताः सन्त एते व्रतिनो राजकुले वा गणे वा गत्वा न किमपि 'उत्तरम्' उपकरणापहाररावात्मकं करिष्यन्ति, अखामिकतया निराशीभूतत्वात् । तथाऽस्माकं योऽधिपतिः तस्य वा तदीया वा ये ज्ञातकाः-खजना यानि च तदीयानि मित्राणि तदादीनां-तत्प्रभृतीनामन्तिके गतास्तैः पृष्टाः सन्तो न किमप्युत्तरं प्रदास्यन्ति, आचायस्यैव तत्पदानप्रगल्भत्वादिति भावः । तस्मादाचार्यमेवापद्रावयाम इति विचिन्त्य तथैव कुर्युः । 25 ततो यथोक्तनीत्या गुरवः प्रवादयितव्याः ॥ ३००७ ॥ ते च स्तेनाश्चतुर्विधाः
संजयपंता य तहा, गिहिभद्दा चेव साहुभद्दा य ।
तदुभयभद्दा पंता, संजयभद्देसु आहडिया ॥ ३००८॥ एके संयतपान्ता गृहस्थभद्रकाः १ अन्ये साधूनां भद्रका गृहस्थप्रान्ताः २ अपरे तदुभयभद्रकाः ३ अपरे तदुभयप्रान्ताः ४ । अत्र ये संयतभद्रकास्तेषु हृताहृतिका भवेत् , हृत्वाऽपि 30 ते भूयो वस्त्रमर्पयेयुरित्यर्थः ॥ ३००८ ॥ ॥ इदमेव स्पष्टयति--
सत्थे विविच्चमाणे, आहिपई भद्दओ व पंतो वा। १ एतन्मध्यगतमवतरणं का वर्तते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364