Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
८१८
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [रात्रिभक्तप्रकृते सू० ४२ परलिंगग्गहणम्मि वि, निक्खिवणट्ठा व अन्नत्थ ॥ २८८६ ॥ यत्र 'विविक्ताः' मुषितास्तत्र पात्रबन्धाभावे चौरपल्यां वा भिक्षार्थ गमनं विदधाना अलाबुकानि सिक्ककेषु कृत्वा हिण्डन्ते । चक्रचरीदिसम्बन्धिपरलिङ्गेन वा भक्त पानग्रहणे प्राप्ते सिक्कक्रेन पर्यटितव्यम् । अवकल्पादेर्वा सिक्कके निक्षेपणं कार्यम् । प्रलम्बादिकं वा सिककेप्यानीय 5 'अन्यत्र' स्थविरागृहादौ निक्षिप्यते । स तदर्थ सिककं ग्रहीतव्यम् । ॥ २८८६ ।।
जे चेव कारणा सिक्कगस्स ते चेव होंति काए वि ।
कप्पुवही बालाइव, वहंति तेहिं पलंवे वा ॥ २८८७ ॥ थान्येव कारणानि सिक्ककस्योक्तानि तान्येव 'कायेऽपि' कापोतिकायामपि भवन्ति । यद्वा सिक्कक-कापोतिकयोरयमुपयोगः–'कल्पम्' अध्यकल्पम् उपधिमाचार्या-ऽसहिष्णुप्रभृतीनां 1८ बालादीन् वा प्रलम्बानि वा उपलक्षणत्वादाकस्मिकशूलविद्धं वा ताभ्यां' सिक्कक-कापोतिकाभ्यां वहन्ति ॥ २८८७ ॥ अथ लोहग्रहणद्वारं भावयति
पिप्पलओं विकरणहा, विवित्त जुन्ने व संधणं सूई ।
आरि तलिसंधणट्ठा, नक्खच्चण नक्ख-कंटाई ॥ २८८८ ॥ 'पिप्पलकः' प्रलम्बविकरणार्थं गृह्यते । तथा 'विविक्तानां' मुषितानां यदवशिष्यमाणं वस्त्रं 15 यद् वा खभावजीणे तस्य सन्धानार्थ सीवनार्थ वा सूची ग्रहीतव्या । त्रुटिततलिकानां सन्धानार्थमारा गृह्यते । 'नखार्चनं' नखहरणिका सा नखच्छेदनार्थ कण्टकादिशल्योद्धरणार्थं वा गृह्यते ॥ २८८८ ॥ शस्त्रकोशः पुनरयम् -शिरावेधशस्त्रकं पच्छणशस्त्रकं कल्पनशस्त्रकं लोहकण्टिका सन्देशकः । एवमादिकस्य शस्त्रकोशस्योपयोगं दर्शयति
कोसाहि-सल्ल-कंटग, अगदोसहमाइयं तु चग्गहणा। __ अहवा खेत्ते काले, गच्छे पुरिसे य ज जोग्गं ॥ २८८९ ॥ "कोस" ति शस्त्रकोशेनेदं प्रयोजनम् ---अहिः-सर्पस्तेन यावन्मात्रमङ्गं दष्टं तावच्छिद्यते, शल्यं वा कण्टको वा नखहरिणकया हर्जुमशक्यस्तेन द्रियते । इह प्रतिद्वारगाथायां "सत्थकोसे य" (गा० २८८३) त्ति यश्चशब्दस्तद्रहणादगदौषधादिकं ग्रहीतव्यम् । तत्र यदनेकद्रव्यैर्निप्पन्नं
तदगदम् , यत् पुनरेकाङ्गिक तत् सर्वमप्यौषधम् । अथवा चशब्दोपादानात् 'क्षेत्रे' दक्षिणा25 पथादौ यद् यत्र दुर्लभम् , 'काले' ग्रीष्मादौ यत् सक्तुप्रभृतिकं शीतलद्रव्यमुपयोगि, महति गच्छे वा यत् केवइयादिकं साधारणम् , 'पुरुषस्य वा' आचार्यादेर्यस्य यद् योग्यं तद् यथायोगं ग्रहीतव्यम् ॥ २८८९ ॥ नन्दीभाजन-धर्मकरकयोरुपयोगमाह
एकं भरेमि भाणं, अणुकंपा णंदिभाण दरिसंति ।
निति व तं वइगाइसु, गालिंति दवं तु करएणं ।। २८९० ॥ 30 - "अणुकंप" ति अध्वप्रतिपन्नानां कोऽप्यनुकम्पया यात्-अहं युप्मभ्यं दिने दिने एक भाजनं 'बिभर्मि' पूरयामि, ततस्तत्र नन्दीभाजनं दर्शयन्ति । अथवा 'तद्' नन्दीभाजनं भिक्षा१.न्ते, गाथायामेकवचनं प्राकृतत्वात् । चक्र' कां० ॥ २ °रादिलिङ्गे भा० कां० विना ॥ ३ एतन्मध्यगतः पाठः भा० त० डे० नास्ति ।।
४ पूर्वगाथायां यान्ये कां० ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364