Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 269
________________ ८३० सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [रात्रिभक्तपकृते सू० ४३ कारशालादौ प्रविशन्ति । तत्रापि यत्र दिवसत एव ( ग्रन्थानम्-८५०० । सर्वग्रन्थाप्रम्-२०७२०) 'उभयभूमिके' उच्चार-प्रश्रवणभूमिकालक्षणे आदिशब्दात् कालभूमिश्च यत्रं 'दृष्टाः' प्रत्युपेक्षिता भवन्ति तत्र रजन्यामपि गन्तुं कल्पते, अन च सूत्रनिपातः ॥ २९२९ ।। ___ एवमापवादिके सूत्रे भूयोऽप्यर्थतो द्वितीयपदमुच्यते-पूर्वमप्रत्युपेक्षिताखपि संस्तारकोचारप्रश्रवणभूमिषु तिष्ठन्ति । कथम् ? इत्याह मज्झे व देउलाई, बाहिं व ठियाण होइ अइगमणं । ‘सावय मकोडग तेण वाल मसयाऽयगर साणे ॥ २९३०॥ 'मध्ये वा' ग्रामादेमध्यभागे यद् देवकुलम् आदिग्रहणात् कोष्ठकशाला वा तत्र दिवसतो विधिना स्थिताः, अथवा प्रामादेः 'बहिः' देवकुलादौ सकलमपि दिवसं स्थिताः, ततो लोक1८स्तत्र स्थितान् दृष्ट्वा ब्रूयात्- "सावय” इत्यादि, अत्र देवकुलादौ रात्रौ श्वापदः-सिंह-व्या घ्रादिस्तद्भयं भवति अतो नात्र भवतां वस्तुं युज्यते; अथवा-मर्कोटका अत्र रात्रावुत्तिष्ठन्ते, स्तेना वा द्विविधा अत्र रजन्यामभिपतन्ति, व्यालो वा सर्पः स खादति, मशका वा निशायामत्राभिद्रवन्ति, अजगरो वाऽत्र रात्रौ गिलति, श्वानो वा समागत्य दशति; एतैर्व्याघातकारण रात्रावन्यस्यां वसतौ 'अतिगमनं प्रवेशो भवति ॥ २९३० ॥ इदमेव स्फुटतरमाह दिवसट्ठिया वि रसिं, दोसे मक्कोडगाइए नाउं । अंतो वयंति अन्न, वसहिं बहिया व अंतो उ॥ २९३१ ॥ देवकुलादौ दिवसतः स्थिता अपि रात्रौ मर्कोटकादीन् दोषान् ज्ञात्वा यदि 'अन्तः' प्रामाभ्यन्तरे स्थितास्ततो ग्रामान्तर्वर्तिनीमेवान्यां वसतिं व्रजन्ति, तदप्राप्तौ बाहिरिकायां गच्छन्ति । अथ दिवसतो बहिर्देवकुलादिषु स्थिताः ततस्तत्रापि रात्रौ पूर्वोक्तान् दोषान् मत्या 20 'बहिः' बाहिरिकाया अन्तः समागच्छन्ति ॥ २९३१ ॥ . अथोक्तमेवार्थमन्याचार्यपरिपाट्या प्रतिपादयति पुवट्ठिए व रति, दट्टण जणो भणाइ मा एत्थं । निवसह इत्थं सावय-तकरमाइ उ अहिलिंति ॥ २९३२ ॥ देवकुलादौ पूर्वस्थितान् साधून रात्रौ दृष्ट्वा जनो भणति, यथा-माऽत्र निवसत, यतोऽत्र 2 रात्रौ श्वापद-तस्करादयः 'अभिलीयन्ते' समागच्छन्ति ॥ २९३२ ॥ इत्थी नपुंसओ वा, खंधारो आगतो त्ति अइगमणं । गामाणुगामि एहि वि, होज विगालो इमेहिं तु ॥ २९३३ ॥ लोको ब्रूयात्-अत्र देवकुलादौ रात्रौ स्त्री वा नपुंसको वा समागत्योपसर्ग करोति, स्कन्धावारो वा आगतः, एवमादिभिः कारणैर्बाहिरिकायाः सकाशादन्तः 'अतिगमनं' प्रवेशं कुर्युः 30 ग्रामाभ्यन्तराद्वा बहिर्गच्छेयुः। एवं तावदध्वनिर्गतानां यतनोक्ता । अथ विहरतां प्रतिपाद्यते"गामाणुगामि" इत्यादि, ये मासकल्पविधिना ग्रामानुग्रामं विहरन्ति तेषामपि 'एभिः' वक्ष्य. १°ल्पते । एवंविधे पूर्वप्रत्युपेक्षिते शय्या-संस्तारके सन्ध्यासमये तिष्ठतां प्रस्तुतसूत्रनिपातो द्रष्टव्यः ॥ २९२९ ॥ कां० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364