________________
८३० सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [रात्रिभक्तपकृते सू० ४३ कारशालादौ प्रविशन्ति । तत्रापि यत्र दिवसत एव ( ग्रन्थानम्-८५०० । सर्वग्रन्थाप्रम्-२०७२०) 'उभयभूमिके' उच्चार-प्रश्रवणभूमिकालक्षणे आदिशब्दात् कालभूमिश्च यत्रं 'दृष्टाः' प्रत्युपेक्षिता भवन्ति तत्र रजन्यामपि गन्तुं कल्पते, अन च सूत्रनिपातः ॥ २९२९ ।। ___ एवमापवादिके सूत्रे भूयोऽप्यर्थतो द्वितीयपदमुच्यते-पूर्वमप्रत्युपेक्षिताखपि संस्तारकोचारप्रश्रवणभूमिषु तिष्ठन्ति । कथम् ? इत्याह
मज्झे व देउलाई, बाहिं व ठियाण होइ अइगमणं ।
‘सावय मकोडग तेण वाल मसयाऽयगर साणे ॥ २९३०॥ 'मध्ये वा' ग्रामादेमध्यभागे यद् देवकुलम् आदिग्रहणात् कोष्ठकशाला वा तत्र दिवसतो विधिना स्थिताः, अथवा प्रामादेः 'बहिः' देवकुलादौ सकलमपि दिवसं स्थिताः, ततो लोक1८स्तत्र स्थितान् दृष्ट्वा ब्रूयात्- "सावय” इत्यादि, अत्र देवकुलादौ रात्रौ श्वापदः-सिंह-व्या
घ्रादिस्तद्भयं भवति अतो नात्र भवतां वस्तुं युज्यते; अथवा-मर्कोटका अत्र रात्रावुत्तिष्ठन्ते, स्तेना वा द्विविधा अत्र रजन्यामभिपतन्ति, व्यालो वा सर्पः स खादति, मशका वा निशायामत्राभिद्रवन्ति, अजगरो वाऽत्र रात्रौ गिलति, श्वानो वा समागत्य दशति; एतैर्व्याघातकारण रात्रावन्यस्यां वसतौ 'अतिगमनं प्रवेशो भवति ॥ २९३० ॥ इदमेव स्फुटतरमाह
दिवसट्ठिया वि रसिं, दोसे मक्कोडगाइए नाउं ।
अंतो वयंति अन्न, वसहिं बहिया व अंतो उ॥ २९३१ ॥ देवकुलादौ दिवसतः स्थिता अपि रात्रौ मर्कोटकादीन् दोषान् ज्ञात्वा यदि 'अन्तः' प्रामाभ्यन्तरे स्थितास्ततो ग्रामान्तर्वर्तिनीमेवान्यां वसतिं व्रजन्ति, तदप्राप्तौ बाहिरिकायां गच्छन्ति । अथ दिवसतो बहिर्देवकुलादिषु स्थिताः ततस्तत्रापि रात्रौ पूर्वोक्तान् दोषान् मत्या 20 'बहिः' बाहिरिकाया अन्तः समागच्छन्ति ॥ २९३१ ॥ . अथोक्तमेवार्थमन्याचार्यपरिपाट्या प्रतिपादयति
पुवट्ठिए व रति, दट्टण जणो भणाइ मा एत्थं ।
निवसह इत्थं सावय-तकरमाइ उ अहिलिंति ॥ २९३२ ॥ देवकुलादौ पूर्वस्थितान् साधून रात्रौ दृष्ट्वा जनो भणति, यथा-माऽत्र निवसत, यतोऽत्र 2 रात्रौ श्वापद-तस्करादयः 'अभिलीयन्ते' समागच्छन्ति ॥ २९३२ ॥
इत्थी नपुंसओ वा, खंधारो आगतो त्ति अइगमणं ।
गामाणुगामि एहि वि, होज विगालो इमेहिं तु ॥ २९३३ ॥ लोको ब्रूयात्-अत्र देवकुलादौ रात्रौ स्त्री वा नपुंसको वा समागत्योपसर्ग करोति, स्कन्धावारो वा आगतः, एवमादिभिः कारणैर्बाहिरिकायाः सकाशादन्तः 'अतिगमनं' प्रवेशं कुर्युः 30 ग्रामाभ्यन्तराद्वा बहिर्गच्छेयुः। एवं तावदध्वनिर्गतानां यतनोक्ता । अथ विहरतां प्रतिपाद्यते"गामाणुगामि" इत्यादि, ये मासकल्पविधिना ग्रामानुग्रामं विहरन्ति तेषामपि 'एभिः' वक्ष्य.
१°ल्पते । एवंविधे पूर्वप्रत्युपेक्षिते शय्या-संस्तारके सन्ध्यासमये तिष्ठतां प्रस्तुतसूत्रनिपातो द्रष्टव्यः ॥ २९२९ ॥ कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org