________________
भाष्यगाथाः २९२३-२९) प्रथम उद्देशः ।
८२९ “एरंडइए साणे" ति हडकयितः श्वा तेन खायेत । 'गौल्मिकैः' बद्धस्थानकै रक्षपालैः 'आरक्षकैर्वा' चौरग्राहैर्गुह्येत । स्तेनका द्विविधाः-शरीरस्तेना उपधिस्तेनाश्च, तैरुपधिरपह्रियेत साधवो वा हियेरन् । एते दोपा रात्रौ शय्या-संस्तारकग्रहणे भवन्ति । तथा 'वेश्यास्त्री-नपुंसकेषु वा' वेश्यापाटके नपुंसकपाटके वा स्थितानां रात्रौ परिवर्तयतां खाध्यायशब्दं श्रुत्वा लोकः प्रवचनावर्णवादं कुर्यात् - अहो ! साधवस्तपोवनमासेवन्ते । यत एते दोषा अतो न रात्रौ शय्या-संस्तारको ग्रहीतव्य इति ॥ २९२६ ।। आह यद्येवं ततः--
सुत्तं निरत्थगं कारणियं, इणमो अद्धाणनिग्गया साहू ।
मरुगाण कोढगम्मी, पुव्वद्दिट्टम्मि संज्झाए ॥ २९२७ ॥ सूत्रं निरर्थकं प्राप्नोति । सूरिराह-न भवति सूत्रं निरर्थकं किन्तु कारणिकम् । किं पुनस्तत् कारणम् ? इत्याह-'इदम्' अनन्तरमेवोच्यमानम्-अध्वनिर्गताः केचन साधवोऽस्त-10 मनवेलायां ग्रामं प्राप्ताः, तत्र तैर्मरुकाणां 'कोष्ठकः' अध्ययनापवरको दृष्टः परं तदीयः खामी तत्र सन्निहितो न विद्यते, ततस्ते साधवस्तं मरुककोष्ठकमुच्चार-प्रश्रवणभूमिकाश्च प्रत्युपेक्ष्य खामिनम्-अध्यापकं समागतं याचन्ते; याचयित्वा च तत्र कोष्ठके पूर्वदृष्टे सन्ध्यायां गृह्यमाणे सूत्रनिपातो द्रष्टव्यः ॥ २९२७ ॥ एवं सन्ध्यालक्षणां रात्रिमङ्गीकृत्योक्तम् , न केवलं सन्ध्यायां किन्तु विकालेऽपि शय्या-संस्तारकस्यामीभिः कारणैर्ग्रहणं कल्पते
18 दूरे व अन्नगामो, उबाया तेण सावय नदी वा ।
दुल्लभ वसहि ग्गामे, रुक्खाइठियाण समुदाणं ॥ २९२८॥ यतो ग्रामात् प्रस्थिताः ततो यत्र गन्तुमीप्सितं सोऽन्यग्रामो दूरे, अथवा 'उद्वाताः' परिश्रान्तास्ततो विश्राम्यन्तः समायाताः, स्तेन-श्वापदभयाद्वा सार्थमन्तरेणागन्तुं न शक्यते स च सार्थश्चिरेण लब्धः, नदी वा प्रव्यूढा; एतैः कारणैर्यस्मिन् ग्रामे प्रस्थितास्तमसम्प्राप्ता अपान्तराल-20 ग्रामे भिक्षावेलायां प्राप्ताः, तत्र च वसतिः दुर्लभा, अतो मार्गयद्भिरपि तत्क्षणं न लब्धा, ततो वृक्षादिमूले बहिः स्थित्वा सर्वेऽपि 'समुदानं' भैक्षं हिण्डितवन्तः ॥ २९२८ ॥ तैश्च हिण्डमानैरमूषां वसतीनामेकतरा दृष्टा भवति
कम्मार-णंत-दारग-कलाय-सम भुजमाणि दिय दिट्ठा ।
तेसु गएसु विसंते, जहिँ दिट्ठा उभयभोमाई ॥२९२९ ॥ कर्मारा:-लोहकारास्तेषां शाला करिशाला, नन्तकानि-वस्त्राणि तानि यत्र व्यूयन्ते सा नन्तकशाला, दारकाः-बालकास्ते यत्र दिवसतः पठन्ति सा दारकशाला लेखशालेत्यर्थः, कलादाः-सुवर्णकारास्तेषां शाला कलादशाला, सभा-बहुजनोपवेशनस्थानम् । यद्वा सभाशब्दः शालापर्यायोऽतः प्रत्येकमभिसम्बध्यते-कारसभा नन्तकसभा इत्यादि । एतासामेकतरा दिवा मुँज्यमाना दृष्टा, ततो व्यतीतायां सन्ध्यायां 'तेषु' लोहकारादिषु गतेषु ताननुज्ञाप्य तत्र 30 १ "एरंडइओ हडकथितमित्यर्थः” इति चूर्णौ । “अलकडओ एरेडइओ" इति विशेषचूर्णौ ॥ २ अतो दुर्लभवसतिके तत्र ग्रामे सा मार्ग° का० ॥ ३ 'भुज्यमाना' उपभोग्यतामानीयमाना दृष्टा का० ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org