SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ रात्रिभक्तप्रकृते सू० ४३ जड्डे खग्गे महिसे, गोणे गवए य सूयर मिगे य । उपरिवाडी गहणे, चाउम्मासा भवे लहुगा ।। २९२३ ॥ 'जड्डः' हस्ती, खड्गो नाम-एकशृङ्ग आटव्यतिर्य विशेषः, 'गो-महिषौ' प्रसिद्धौ, 'गवयः' मयाकृतिराटव्यजीवविशेषः, 'सूकर-मृगौ' प्रसिद्धौ । एतैर्जड्डादिभिर्मर्दनेन परिणामितं पानक इयथाक्रममध्वनि ग्रहीतव्यम् । अथ 'उत्सरिपाट्या' यथोक्तक्रममुल्लङ्घय ग्रहणं करोति ततश्चत्वारो मासा लघुका भवेयुः ।। २९२३ ॥ सूत्रम् नऽन्नत्थ एगेणं पुव्वपडिलेहिएणं सेज्जा-संथारएणं ४३॥ "म कल्पते रात्री वा विकाले वा" (सूत्रं ४२) इति योऽयं प्रतिषेधः स एकस्मात् 10 पूर्वप्रत्युपेक्षितात् शय्या-संस्तारकादन्यत्र । इहान्यत्रशब्दः परिवर्जनार्थः, यथा अन्यत्र द्रोण-भीष्माभ्यां, सर्वे योधाः पराङ्मुखाः । द्रोण-भीष्मौ वर्जयित्वेत्यर्थः । ततश्चैकं शय्या-संस्तारकं विहायापरं किमपि रात्रौ ग्रहीतुं न कल्पत इति सूत्रसङ्केपार्थः ॥ अथ नियुक्तिविस्तरः रातो सिज्जा-संथारग्गहणे, चउरो मासा हवंति उग्धाया। आणाइणो य दोसा, विराहणा संजमाऽऽयाए ॥ २९२४ ॥ शेरतेऽस्यामिति शय्या-वसतिः, सैव संस्तारकः शय्यासंस्तारकः; यद्वा शय्या-वसतिरेव, संस्तारको द्विधा-परिशाटी अपरिशाटी चेति, ततः शय्योपलक्षितः संस्तारकः शय्यासंस्तारकः, शय्या च संस्तारकश्चेत्यर्थः । - तस्य च यद्यपि सूत्रे रात्रौ ग्रहणमनुज्ञातं तथाप्युत्सर्गतो न कल्पते । यदि गृह्णाति ततश्चत्वारो मासा उद्घाताः प्रायश्चित्तम् , आज्ञादयश्च 20 दोषाः, विराधना च संयमात्मविषया ॥ २९२४ ॥ तामेव भावयति __ छकायाण विराहण, पासवणुच्चारमेव संथारे ।। पक्खलण खाणु कंटग, विसम दरी वाल गोणे य ॥ २९२५ ॥ रात्रावप्रत्युपेक्षितायां भूमावुच्चारं प्रश्रवणं वा व्युत्सृजतः 'षटकायानां' पृथिव्यादीनां विराधना । अथैतद्दोषभयान्न व्युत्सृजति तत आत्मविराधना । यत्र वा व्युत्सृजति तत्र बिलान्निर्गत्य दीर्घजातीयेन भक्ष्येत, एवमप्यात्मविराधना । “संथारे" त्ति अप्रत्युपेक्षितायां भूमौ संस्तारक प्रक्षिपतः ‘एवमेव' षट्कायविराधना, बिलादावात्मविराधनाऽपि । तथा 'स्थाणुः' कीलकस्तत्र प्रस्खलनं भवेत् , कण्टकैर्वा विध्येत, 'विषमे' निम्नोन्नते 'दरीषु' वा बिलेषु प्रस्खलेत् प्रपतेद्वा, 'व्यालाः' सस्तैिर्दश्येत, 'गौः' बलीवर्दस्तेनाभिघातो भवेत् ॥ २९२५ ॥ किञ्च एरंडइए साणे, गोम्मिय आरक्खि तेणगा दुबिहा । 30 एए हवंति दोसा, वेसित्थि-नपुंसएसुं वा ॥ २९२६ ॥ ११ एतदन्तर्गतः पाठः कां० एव वर्तते ।। २°म्, चतुर्लघव इत्यर्थः। आज्ञा कां० ॥ _Jain Education Internatio३ एवमुत्स जनऽप्यात्म भाorlvate & Personal use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy