________________
भाष्यगाथाः २९१९-२२]
प्रथम उद्देशः ।
८२७
धिसमृद्धिमनुभवन्ति तद् नन्दिः । यद्वा येन द्रव्येणोपभुक्तेन नैव "दर" त्ति द्रुतं 'क्षीयन्ते ' न कृशीभवन्तीत्यर्थः तद् नन्दिः । अथवा येनोपयुक्तेन न दीना जायन्ते तदपि निरुक्तिवशाद् नन्दि: । अत्र पाठान्तरम् – “जायंति नंदिया व " ति नन्द्या - ज्ञान-दर्शन- चारित्रात्मिकया समृद्ध्या युक्ताः साधवो येतस्तेन द्रव्येण जायन्ते अतस्तस्य नन्दिरिति 'समयतः संज्ञा' आग -: मतः परिभाषा ॥ २९२० ॥ तच्च द्रव्यं द्विविधम्, तद्यथा
6
परिनिट्ठिय जीवजढं, जलयं थलयं अचित्तमियरं च । परित्तेतरं च दुविहं, पाणगजयणं अतो वोच्छं ।। २९२१ ॥ द्विधा द्रव्यम् - परिनिष्ठितं जीवविप्रमुक्तं च । परिनिष्ठितं नाम - यत् परार्थमचित्तीकृतम्। जीवविप्रमुक्तं तु–साध्वर्थमचित्चीकृतम्, आधाकर्मेति हृदयम् । आह च चूर्णिकृत् — परिनिट्ठियं ति जं परकडमचित्तं, जीवजढं ति आहाकम्मं ।
यद्वा द्विविधं द्रव्यम् – जलजं स्थलजं चेति । अथवा अचितेतर भेदाद् द्विधा । तत्राचितं नाम-यद् न परार्थमचित्तीकृतं नापि संयतार्थं केवलमायुः क्षयेणाचित्तीभूतम् ।
• तथा चाह चूर्णिकृत् — अचित्तं ति जं नावि परट्ठाए अचित्तीभूयं, नावि संजयट्टाए, केवलं आउक्खएणं अचित्तं ति
14
यत् पुनरायुर्धारयति तत् सचित्तम् । अथवा 'परीतं ' प्रत्येकम् ' इतरद्' अनन्तमिति वा 15 द्विविधम् । एवमादिकं द्विविधं द्रव्यमसंस्तरणे ग्रहीतव्यम् । तदेवमुक्ता तावदाहारयतना । अथ पानकयतनामत ऊर्द्ध वक्ष्ये ॥ २९२१ ॥ यथाप्रतिज्ञातमेव निर्वाहयतितुवरे फले अपत्ते, रुक्ख - सिला-तुप्प - मद्दणाईसु |
पासंद पवाए, आयवतत्ते वहे अवहे ।। २९२२ ॥
तद्यथा-
अध्वनि वर्त्तमानैः काञ्जिकादिप्राशुकपानकाप्राप्ता वीदृशानि पानकानि ग्रहीतव्यानि 120 — तुवरफलानि - हरितकी प्रभृतीनि तुवरपत्राणि - पलाशपत्रादीनि तैः परिणामितं पानकं प्रथमतो ग्राह्यम् । तथा "रुक्खे” त्ति वृक्षकोटरे कटुकफल- पत्रादिपरिणामितम्, एवंविधस्याभावे ‘“सिल” ति सिलाजतुभावितम्, तदभावे "तुप्प” त्ति मृतक - कडेवर -वशा-घृतादिभिः परिणामितम्, तदप्राप्तौ " मद्दणाई सु" ति हस्त्यादिमर्दनेनाक्रान्तम्, आदिशब्दो हस्त्यादीनामेवानेकभेदसूचकः, तदभावे प्रस्यन्दनं - निर्झरणं तत्पानकम्, ततः प्रपातोदकम्, प्रपातो 25 नाम-यत्र पर्वतात् पानीयं निपतति, यथा उज्जयन्तादिगिरौ, तदभावे आतपेन यत् तप्तं तत् प्रथमम् 'अवहं' अवहमानकं पश्चात् तदेव 'वह' वहमानकं ग्राह्यम् । गौथायां बन्धानुलोम्याद् वहपदस्य पूर्वं पाठ इति ॥ २९२२ ॥ अथ “मद्दणाईसु" त्ति पदं व्याचष्टे
१ यतो जायन्तेऽतः संस्तरणस्य नन्दिरिति 'समयसंज्ञा' आगमपरिभाषा, यथा यथा संस्तरणं भवति तथा तथा विधेयमिति भावः ॥ २९२० ॥ अथ द्विविधं द्रव्यं व्याचष्टे - परि° भा० ॥ २ 'क्षपणादचित्ती' मो० ले० ॥ ३1 एतच्चिहगतः पाठः भा० कां • विना नास्ति ॥ ४-५ एतन्मध्यगतः पाठः भा० त० डे० नास्ति ॥
६-७ √
एतन्मध्यगतः पाठः कां० एव वर्त्तते ॥
Jain Education International
10
For Private & Personal Use Only
www.jainelibrary.org