________________
८२६
10
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ रात्रिभक्तप्रकृते सू० ४२ व्यत्यासेन पूर्वापरनिपातः, 'एकास्थिकम्' एकबीजम् , 'अबद्धास्थिकं नाम' अद्याप्यबद्धबीजम् अनिष्पन्नमित्यर्थः, 'भिन्नं विदारितम् , एतेन प्रथमो भङ्गः सूचितः, “अभिन्ने य" त्ति 'अभिनम्' अविदारितम् , अनेन द्वितीयो भङ्ग उपात्तः । उच्चारणविधिः पुनरेवम्-प्राशुकं परीत्तयोनिकमेकास्थिकमबद्धास्थिकं भिन्नम् १, प्राशुकं परीचयोनिकमेकास्थिकमबद्धास्थिकमभिन्नम् २, 5 एवं बद्धास्थिकेऽपि द्वौ भङ्गो वक्तव्यौ ४ । एते एकास्थिके चत्वारो भङ्गा लब्धाः, बहुबीजेऽप्येवमेव चत्वारो लभ्यन्ते, जाता अष्टौ भङ्गाः । एते परीत्तयोनिपदममुञ्चता लब्धाः, एवमेवानन्तयोनिपदेनाप्यष्टौ भङ्गाः प्राप्यन्ते, जाताः षोडश भङ्गाः । एते प्राशुकपदेन लब्धाः, एवमेवाप्राशुकपदेनापि षोडशावाप्यन्ते, सर्वसङ्ख्यया जाता द्वात्रिंशद् भङ्गाः । एते च वृक्षस्याधस्तात् पतितं प्रलम्बमधिकृत्य मन्तव्याः ॥ २९१८ ॥
एमेव होइ उवरिं, एगट्ठिय तह य होइ बहुवीए ।
साहारणं सभावा, आदीऍ बहुगुणं जं च ॥ २९१९ ॥ एवमेव वृक्षस्योपर्यपि एकास्थिकपदे तथैव बहुबीजपदे उपलक्षणत्वात् प्राशुकादिशेषपदेषु च द्वात्रिंशद् भङ्गाः कर्त्तव्याः । अत्र च यो यः पूर्वो भङ्गकः स स प्रथममासेवितव्यः । सर्वथा वाऽधस्तात् पतितानां प्रलम्बानामप्राप्तौ वृक्षोपरिवर्तिप्रलम्बविषया अपि द्वात्रिंशद् भङ्गका यथा15 क्रममेवासेवितव्याः । अथापवादस्याप्यपवाद उच्यते - 'स्वभावात्' प्रकृत्यैव 'साधारणं'
शरीरोपष्टम्भकारकं द्रव्यमेकास्थिकमनेकास्थिकं वा बद्धास्थिकमबद्धास्थिकं वा परीत्तमनन्तं वा तद् उत्क्रमेणापि 'आदते' गृह्णाति, 'यद्' यस्मात् तस्यामवस्थायां तदेव 'बहुगुणं' संयमादीनां बहूपकारकमिति ॥ २९१९ ॥ अथ द्वारगाथा(२९०६)ऽन्तर्गतं नन्दिपदं व्याख्यानयति
नंदंति जेण तव-संजमेसु नेव य दर त्ति खिजति ।
जायंति न दीणा वा, नंदि अतो समयतो सन्ना ॥ २९२० ॥ अध्वनि वर्तमानाः साधवो येन द्रव्येणाभ्यवहृतेन तपः-संयमयोः 'नन्दन्ति' समा
१°रणसभा भा० । एतदनुसारेणेव भा० टीका । दृश्यतां टिप्पणी ३ ॥
२°पि द्वात्रिंशद् भङ्गाः कर्तव्याः । कथम् ? इत्याह-"एगट्ठिय तह य होइ बहुवीए" त्ति उपलक्षणमिदं प्राशुकादीनां शेषपदानाम् । अत्र च यो यः भा० ॥
३ त० डे० मो० ले० विनाऽन्यत्र-ते-"साहारण" इत्यादि । साधारणः-शरीरोपष्टम्भकारी यः स्वभावस्तस्मात्, यच्चेतिशब्दः प्रकारान्तरोपन्यासे स्वगतानेकभेदसूचने वा, यद् द्रव्यमेकास्थिकमनेकास्थिकं वा बद्धास्थिकमबद्धास्थिकं वा परीत्तमनन्तं वा यस्यामवस्थायां [यत्] साधारणस्वभावाद् 'बहुगुणं' संयमादीनां बहूपकारकं तदा तदेव 'आदत्ते गृह्णाति न क्रमाक्रमविचारणं विदधाति ॥ २९.१९ ॥ अथ भा० ।
ते-तादृशेऽध्वनि वहमानानां 'स्वभावात्' प्रकृत्यैव 'साधारणं' शरीरोपटम्भकारि "जं च" त्ति यदेव द्रव्यमेकास्थिक कां० । “साहारणसभाव त्ति अप्पणो सभावं गाउं जेण खइएण साहारिजइ सो तं गेण्इइ” विशेपचूर्णौ ॥ ४ अथ नियुक्तिगाथा कां ॥ ५»» एतदन्तर्गतः पाठः भा० त० डे० नास्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org