Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 243
________________ सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्करुपसूत्रे [ रात्रिभक्तप्रकृते सू० ४२ अथ कल्पस्थकेऽपद्राणे यथा शङ्का भवति तदेतदुपदर्शयति हतुं सवित्तिणिसुयं, पडियरई काउमऽग्गदारम्मि । समणेण णोल्लियम्मी, पवेदण जणस्त आसंका ॥ २८४४ ॥ काचिदविरतिका रजन्यां सपत्नीसुतं हत्वा ततस्तमाद्वारे कृत्वा कपाटस्य पृष्ठतस्तमवष्टभ्य 'प्रतिचरति प्रतिजामती तिष्ठति । श्रमणश्च तदानी भिक्षार्थमायातः तेन कपाटं प्रेरितम् , स च दारकः सहसैव भूमौ पतितः । ततस्तया प्रवेदनं कृतं पूत्कृतमित्यर्थः, यथा-आः ! कष्टं संयतेन दारको व्यापादित इति । ततश्च जनस्याशङ्का भवति-किं मन्ये सत्यमेवेदम् ? इति । तत्र ग्रहणाकर्षणादयो दोषाः ॥ २८४४ ॥ अथ मृषावादे विराधनामाशङ्कां चाह मा निसि मोकं एज्जसु, भणाइ एहिंति ते गिहं सुणगा। पुणरितं सड्डिपई, भणाइ सुणओ सि किं जातो ॥ २८४५ ॥ एवं चिय मे रत्ति, कुसणं दिजाहि तं च सुणएण । खइयं ति य भणमाणे, भणाइ जाणामि ते सुणए ॥ २८४६॥ काचिदविरतिका कस्यापि साधोरुपशान्ता, सा तस्य रात्रावप्यागतस्य भक्त-पानं प्रयच्छति, तद् दृष्ट्वा तदीयेन भर्ना स साधुरभिहितः-मा 'निशि' रात्रौ मदीयम् 'ओकः' गृहमायासीः । 15 ततः साधुर्भणति-एष्यन्ति त्वदीयं गृहं शुनका इति । ततः स साधुर्जिह्वादण्डदोषेणाकृष्यमाणः पुनस्तदीयं गृहमागतवान् । तं पुनरायान्तं स श्राद्धिकापतिर्भणति-किमेवं त्वं श्वा नो जातः ? । एवं मृषावाददोषमापद्यते । अथवा एवमेव केनचिदगारिणा साधुर्निशि समागच्छन् प्रतिषिद्धः 'श्वानस्ते गृहमागमिष्यन्ति' इति प्रतिज्ञां कृतवान् । अन्यदा च तेनाविरतिकेन दिवा भुञ्जानेन महिला भणिता-मन्निमित्तमद्य कुसणं स्थापयेः, पश्चाच्च मम रात्रौ भुञ्जानस्य 20 'दद्याः' परिवेषयेः । ततस्तया स्थापितम् । तच्च शुनकेन भक्षितम् । रात्रौ च सा भणितापरिवेषय मम तत् कुसणम् । तया भणितं-शुनकेन भक्षितम् । स ऐवं भणन्त्यां तस्यां गाथायां पुंस्त्वनिर्देशः प्राकृतत्वात् । स प्राह-जानाम्यहं 'ते' त्वदीयान् शुनकान् । एवं मृषावादविषया शङ्का भवेत् ॥ २८४५ ॥ २८४६ ॥ __ अथ तृतीयचतुर्थव्रतयोविराधनामाशकां च प्रतिपादयति __ सयमेव कोइ लुद्धो, अवहरती तं पडुच्च कम्मकरी । वाणिगिणी मेहुन्नं, बहुसो व चिरं व संका या ॥ २८४७ ॥ कश्चिल्लुब्धो भिक्षार्थं प्रविष्टो रजन्यामाकीर्णविप्रकीर्ण वस्त्र-हिरण्यादि दृष्ट्वा खयमेवापहरेत् । अथवा तं संयतं प्रतीत्य कर्मकरी काचिदपहरेत् , 'संयतेन हृतं भविष्यतीति गृहपतिप्रभृतयश्चिन्तयिष्यन्ति' इति बुद्ध्या सा सुवर्णादिकं चोरयेदिति भावः । तथा काचिद् वाणिजिका १°वं भवान् श्वा भा० । "अविरतओ भणति-तुम सा णो जातो?" इति चूर्णी विशेषचूर्णौ च ॥ २० एतन्मध्यगतः पाठः भा० त० डे• नास्ति । ३°म्यहं तद् मानुषं येन शुनकेन भूत्वा भक्षितम् । एवं भा० । “सो भणइ-जाणामि तं माणुससाणं जेण खड्यं" इति विशेषचूर्णौ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364