________________
सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्करुपसूत्रे [ रात्रिभक्तप्रकृते सू० ४२ अथ कल्पस्थकेऽपद्राणे यथा शङ्का भवति तदेतदुपदर्शयति
हतुं सवित्तिणिसुयं, पडियरई काउमऽग्गदारम्मि ।
समणेण णोल्लियम्मी, पवेदण जणस्त आसंका ॥ २८४४ ॥ काचिदविरतिका रजन्यां सपत्नीसुतं हत्वा ततस्तमाद्वारे कृत्वा कपाटस्य पृष्ठतस्तमवष्टभ्य 'प्रतिचरति प्रतिजामती तिष्ठति । श्रमणश्च तदानी भिक्षार्थमायातः तेन कपाटं प्रेरितम् , स च दारकः सहसैव भूमौ पतितः । ततस्तया प्रवेदनं कृतं पूत्कृतमित्यर्थः, यथा-आः ! कष्टं संयतेन दारको व्यापादित इति । ततश्च जनस्याशङ्का भवति-किं मन्ये सत्यमेवेदम् ? इति । तत्र ग्रहणाकर्षणादयो दोषाः ॥ २८४४ ॥ अथ मृषावादे विराधनामाशङ्कां चाह
मा निसि मोकं एज्जसु, भणाइ एहिंति ते गिहं सुणगा। पुणरितं सड्डिपई, भणाइ सुणओ सि किं जातो ॥ २८४५ ॥ एवं चिय मे रत्ति, कुसणं दिजाहि तं च सुणएण ।
खइयं ति य भणमाणे, भणाइ जाणामि ते सुणए ॥ २८४६॥ काचिदविरतिका कस्यापि साधोरुपशान्ता, सा तस्य रात्रावप्यागतस्य भक्त-पानं प्रयच्छति, तद् दृष्ट्वा तदीयेन भर्ना स साधुरभिहितः-मा 'निशि' रात्रौ मदीयम् 'ओकः' गृहमायासीः । 15 ततः साधुर्भणति-एष्यन्ति त्वदीयं गृहं शुनका इति । ततः स साधुर्जिह्वादण्डदोषेणाकृष्यमाणः पुनस्तदीयं गृहमागतवान् । तं पुनरायान्तं स श्राद्धिकापतिर्भणति-किमेवं त्वं श्वा नो जातः ? । एवं मृषावाददोषमापद्यते । अथवा एवमेव केनचिदगारिणा साधुर्निशि समागच्छन् प्रतिषिद्धः 'श्वानस्ते गृहमागमिष्यन्ति' इति प्रतिज्ञां कृतवान् । अन्यदा च तेनाविरतिकेन दिवा भुञ्जानेन महिला भणिता-मन्निमित्तमद्य कुसणं स्थापयेः, पश्चाच्च मम रात्रौ भुञ्जानस्य 20 'दद्याः' परिवेषयेः । ततस्तया स्थापितम् । तच्च शुनकेन भक्षितम् । रात्रौ च सा भणितापरिवेषय मम तत् कुसणम् । तया भणितं-शुनकेन भक्षितम् । स ऐवं भणन्त्यां तस्यां गाथायां पुंस्त्वनिर्देशः प्राकृतत्वात् । स प्राह-जानाम्यहं 'ते' त्वदीयान् शुनकान् । एवं मृषावादविषया शङ्का भवेत् ॥ २८४५ ॥ २८४६ ॥ __ अथ तृतीयचतुर्थव्रतयोविराधनामाशकां च प्रतिपादयति
__ सयमेव कोइ लुद्धो, अवहरती तं पडुच्च कम्मकरी ।
वाणिगिणी मेहुन्नं, बहुसो व चिरं व संका या ॥ २८४७ ॥ कश्चिल्लुब्धो भिक्षार्थं प्रविष्टो रजन्यामाकीर्णविप्रकीर्ण वस्त्र-हिरण्यादि दृष्ट्वा खयमेवापहरेत् । अथवा तं संयतं प्रतीत्य कर्मकरी काचिदपहरेत् , 'संयतेन हृतं भविष्यतीति गृहपतिप्रभृतयश्चिन्तयिष्यन्ति' इति बुद्ध्या सा सुवर्णादिकं चोरयेदिति भावः । तथा काचिद् वाणिजिका
१°वं भवान् श्वा भा० । "अविरतओ भणति-तुम सा णो जातो?" इति चूर्णी विशेषचूर्णौ च ॥ २० एतन्मध्यगतः पाठः भा० त० डे• नास्ति ।
३°म्यहं तद् मानुषं येन शुनकेन भूत्वा भक्षितम् । एवं भा० । “सो भणइ-जाणामि तं माणुससाणं जेण खड्यं" इति विशेषचूर्णौ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org