________________
भाष्यगाथाः २८३८-४३] प्रथम उद्देशः ।
संजमविराहणाए, छक्काया पाणवहमादी ॥ २८४२ ॥ भगवता प्रतिषिद्धं रात्रिभोजनं कुर्वता आज्ञाभङ्गः कृतो भवति । तं दृष्ट्वाऽन्येऽपि रात्रिभक्ते प्रवर्तन्ते इत्यनवस्थाऽपि स्यात् । मिथ्यात्वे तु भिक्षुदृष्टान्तो वक्तव्यः
'जहा-कालोदाई नाम भिक्खुगो रयणीए एगस्स माहणस्स गिहं भिक्खट्टा पविट्ठो । तओ माहणी तस्स भिक्खानिमित्तं जाव मज्झे पविसइ ताव अंधयारबहलयाए अग्गओ खीलओ न दिट्टो । तत्थावडियाए तीसे खीलएण कुच्छी फाडिओ। सा य गुविणी आसि । गम्भो फुरफुरंतो पडिओ मओ य । सा वि य मया । तं दटुं लोगेण भणियं-अदिट्ठधम्माणो एए ति ॥ ___ एवं साधुरपि रात्रौ भिक्षामटन् भगवत्यसर्वज्ञत्वशङ्कामुत्पादयति । तथा » विराधना द्विविधा-संयमे आत्मनि च । तत्रात्मविराधना भाव्यते-रात्रौ मार्गमपश्यतः प्रस्खलनं भवति, 10 स्थाणु-कण्टकाभ्यां वा पादयोः परिताप्येत, विषम-निम्नोन्नतं दरी-र्ता तयोर्वा प्रपतेत् , व्यालः-सर्पस्तेन वा दश्येते, श्वानो वा रात्रावुपद्रवं कुर्यात् ॥ २८४१॥ ___ 'गौः' बलीवर्दस्तेन अभिहन्येत, स्तेना आदिशब्दादारक्षिकादयो वा तमकाले पर्यटन्तं गृहीयुः । यद्वा स.एव साधुरकाले पर्यटन स्तेन आदिशब्दाचारिको वा अभिमरो वा उद्रामको वा आरक्षिकपुरुषैः शङ्कयेत, ततश्च प्रान्तापनादयो दोषाः । एवमादयो दोषा आत्मविरा-15 धनाविषया भवन्ति । संयमविराधनायां तु षट् काया निशि तमस्यदृश्यमानाः स्फुटमेव विराध्यन्ते, अथवा प्राणवधादयो दोषा रात्रौ पिण्डं गवेपयतो भवन्ति ॥ २८४२॥ तानेव भावयति
पाणवह पाणगहणे, कप्पट्ठोद्दाणए अ संका उ ।
. भणिओ न ठाइ ठाणे, मोसम्मि उ संकणा साणे ॥ २८४३॥ 20 "दिवा बीजसंसक्तोदकादीनि सुप्रत्युपेक्षतया सुखेनैव साधुः परिहर्तुमीष्टे, रात्रौ तु दुःप्रत्युपेक्षतया तेषां परिहारः कत्तुं न शक्यते, अतः प्राणिग्रहणे प्राणवधो भवति । कल्पस्थके चापदाणेऽगारिणो वक्ष्यमाणनीत्या शङ्का भवेत्-नूनमेतेनापद्रावित इति । तथा कोऽपि साधुरगारिणा भणितः-रात्रौ मा मदीयं गृहमायासीरिति । ततः 'श्वानस्ते गृहमायास्यन्ति' इति प्रतिज्ञां कृत्वा गतः, परमसौ 'स्थाने' स्ववचने न तिष्ठति ततश्च मृषावादमसौ ब्रूत इति शङ्का 25 गृहस्थस्य स्यात् । एतदुत्तरत्र भावयिष्यते ॥ २८४३ ॥ ११ एच्चिह्नान्तर्वती पाठः भा० नास्ति ॥ २°त, यद्वा मर्कोटकादिनाऽपि दयः सर्प शङ्केत ततः शङ्काविषं समुल्ललति, श्वा भा० ।। ३°श्च ते वध-बन्धादिक विध्युः । एव कॉ. ॥
४ इह दिवा त्रसप्राणिसंसक्तादीनि कां० । “पाणिवधो पाणिगहणे भवति, कधं ? उदउल्लवीयसंसत्तं, पाणा णिवतिता महिं । दिवा एताणि वजेंतो, रातो तत्थ कधं चरे ? ॥" चूर्णी विशेषचूर्णौ च ॥
५'पाणिग्रहणे त्रसप्राणिसंसक्तादीनामादाने 'प्राणवधः' प्रथममहावतविराधनालक्षणो भवति कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org