________________
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ रात्रिभक्तप्रकृते सू० ४२
रातो व वियाले वा, संज्झा राई उ केसि विकालो । चउरो य अणुग्धाया, चोदगपडिघाय आणादी || २८३८ || “रात्रौ वा विकाले वा” इति यदुक्तं सूत्रे तत्र सन्ध्यां रात्रिरुच्यते, राजते - शोभते इति निरुक्तिवशात् । शेषा सर्वाऽपि रजनी विगतः सन्ध्याकालोऽत्रेति कृत्वा विकाल उच्यते । केषाञ्चिदाचार्याणां दिवस लक्षणकालविगमात् सन्ध्या विकालः, शेषा तु रात्रिः, रज्जंति ( रञ्जन्ति ) स्तेन - पारदारिकादयोऽत्रेति कृत्वा । एतयो रात्रि - विकालयोः सूत्रोक्तं चतुर्विधमाहारं गृहतो भुञ्जानस्य च चत्वारोऽनुद्धाता मासाः प्रायश्चित्तम् । नोदकः प्रेरयति - किमिति रात्रिभोजनं परिहियते ? उच्यते-- बहुदोषदर्शनात् । पुनरपि परः प्राह - युष्माकं द्वाचत्वारिंशद्दोषपरिशुद्धः पिण्डः परिभुज्यते इति समयस्थितिः, तेषु च द्वाचत्वारिंशद्दोषेषु रात्रिभोजनं न कापि 10 प्रतिषिद्धम्, अप्रतिषिद्धत्वाच्चावश्यमेव निर्दोषमिति मे मतिः । अस्य नोदकवचनस्य प्रतिघातं - प्रतिषेधमाचार्यः करोति — नोदक ! भवत एवं ब्रुवाणस्याज्ञाभङ्गादयो दोषाः, तथाहि —यत् त्वया प्रतिपादितं 'रात्रिभोजनप्रतिषेधः क्वाप्यस्माभिर्न दृष्ट:' इत्यादि तदेतदज्ञानप्रलपितमिव लक्ष्यते ॥ २८३८ ॥ यतः -
जइ वि य न पडिसिद्धं, बायालीसाऍ राइभत्तं तु ।
छट्ठे महव्वयम्मी, पडिसेहो तस्स नणु वृत्तो ॥ २८३९ ।। यद्यपि च द्वाचत्वारिंशति दोषेषु रात्रिभक्तं न प्रतिषिद्धं तथापि पष्ठे महात्रते पड्जीवनि - कायां ननु तस्य प्रतिषेध उक्त एव । तथा च सूत्रम् -
अहावरे छट्टे भंते! व राइभोयणाओ वेरमणं । ( दशवै० अ० ४ ) इत्यादि । ॥ २८३९ ॥ अपि च
20
जइ ता दिया न कप्पर, तमं ति काऊण कोट्टयाईसु ।
किं पुण तमस्सईए, कप्पिस्सइ सव्वरीए उ || २८४० ॥
यदि तावत् 'तमः' अन्धकारमिति कृत्वा नीचद्वारकोष्ठकादिषु दिवाऽपि भक्तपानं ग्रहीतुं
न कल्पते,
15
८०२
“नीयदुवारं तमसं, कोट्टगं परिवज्जए ।" ( दशवै० अ० ५ उ० १ गा० २० ) 25 इति वचनात् ; ततः किं पुनः 'तमखत्यां' बहलतमः पटलकलितायां 'शर्वय्या' रात्रौ कल्पि - प्यते ? नैवेति भावः ॥ २८४० ॥ यच्चोक्तम्– 'रात्रिभक्ते दोषा न सन्ति ' इति तदप्यपरिभावितभाषितम्, यतः साक्षादेवामी दोषास्तत्रोपलभ्यन्ते—
30
मिच्छत्तम्मी भिक्खू, विराहणा होइ संजमायाए ।
पक्खलण खाणु कंटग, विसम दरी वाल साणे य ।। २८४१ ।। गोणे य तेणमादी, उन्भाग एवमाइ आयाए ।
१न्ध्या, येन राजते- शोभते ततो निर्युक्तया रात्रिरुच्यते । शेषा सर्वाऽपि रजनी विकालः । केषाञ्चिदाचार्याणां दिवसविगमात् सन्ध्या विकाल इत्युच्यते, शेषा तु सर्वाऽपि रात्रिरिति । एतयो रात्रि भा० ॥ २ °ते ! महत्वए भा० ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org