________________
भाष्यगाथाः २८४४-४९] प्रथम उद्देशः ।
८०५ प्रोषितभर्तृका मैथुनमवभाषेत, तद्वचनाभ्युपगमे चतुर्थव्रतविराधना । तथा आहारनिमित्तं बहुशः प्रवेश-निर्गमौ कुर्वाणश्चिरं चालाप-संलापादिभिस्तिष्ठन् मैथुनप्रतिसेवायां जनैः शङ्कयेत ॥२८४७॥ अथ पञ्चमव्रतविषये विराधना-शङ्के दर्शयति
अणभोगेण भएण व, पडिणीओम्मीस भत्तपाणं तु । [ओ.नि.४८३]
दिजा हिरनमादी, आवजण संकणा दिट्टे ॥ २८४८ ॥ कश्चिदनाभोगेन भक्त-पानोन्मिश्रितं हिरण्यादि दद्याद् भयेन वा । यथा- कयाचिद् यक्षरिकया हिरण्यादिकमपहृतम् , सा च तं न शक्नोति सङ्गोपयितुं वा प्रत्यर्पयितुं वा, ततः संयतस्य भैक्षेण समं दद्यात् । प्रत्यनीकतया वा दद्यात् , यथा काष्ठश्रेष्टिसाधोर्वजानामिकया प्राक्तनभार्यया इति । एवं च हिरण्यादिके गृहीते सति कश्चित् तत्रैव समूच्छी कुर्यात् , » मूर्च्छया चैकान्ते सङ्गोप्य धारयतः परिग्रहदोषस्यापत्तिर्भवति । तथा तत् सुवर्णादिकं भक्तपानसम्मिश्रं 10 दीयमानं दत्तं वा प्रतिग्रहे जाज्वल्यमानं कश्चित् पश्येत् , दृष्टे च तस्य शङ्का जायेत-किं मन्येऽयं जानानो लुब्धतया गृह्णाति ? उताजानानः प्रमादात् ? इत्यादि । यत एते दोषा अतो रात्रौ न पर्यटितव्यम् ॥ २८४८ ॥ अथ रात्रिभक्तमेव भेदतः प्ररूपयन्नाह
तं पि य चउन्विहं राइभोयणं चोलपट्टमइरेगे।
परियावन्न विगिंचण, दर गुलिया रुक्ख सुन्नघरे ॥ २८४९॥ 16 तदपि च रात्रिभोजनं चतुर्विधम् , तद्यथा-दिवा गृहीतं दिवा भुक्तं १ दिवा गृहीतं रात्रौ भुक्तं २ रात्रौ गृहीतं दिवा भुक्तं ३ रात्रौ गृहीतं रात्रौ भुक्तं च ४ इति । एतेषु चतुर्ध्वपि भङ्गेषु यथाक्रमं तपःकाललघु १ कालगुरु २ तपोगुरुको ३ भयगुरुकरूपाश्चत्वारो गुरवः । तत्र प्रथमभङ्गो भाव्यते--"चोलपट्ट" त्ति कस्यापि संयतस्य संज्ञातकानां सङ्खडिरुपस्थिता, स च तस्मिन् दिवसे प्रातरेवाभक्तार्थ प्रत्याख्यातवान् , ततः ‘मा मामेतेऽभक्तार्थिनं न ज्ञास्यन्ति' इति 20 कृत्वा पात्रकैरनुद्राहितैश्चोलपट्टकसहितो गतः संज्ञातकगृहं पृष्टश्च-किं भवद्भिर्भाजनानि नानीतानि ?; ततस्तेनान्येन वा साधुना भणितम् --अद्याभक्तार्थिक इति; ततस्ते संज्ञातकाः 'कल्ये वयं दास्यामः' इति कृत्वा यत् तदर्थ स्थापयन्ति द्वितीयदिने च यद्यसौ तद् गृहीत्वा भुङ्क्ते तदा प्रथमभङ्गो भवति । “अइरेगे" ति सङ्खड्यामन्यत्र वा कचिदतिरिक्तमवगाहिमादि लब्धम् , तच्च 'पर्यापन्नं परिष्ठापनायोग्यतां प्राप्तम्, ततस्तस्य 'विगिञ्चणं' परिष्ठापनं तदर्थ निर्गतः, 25 तच्चोत्कृष्टमविनाशि द्रव्यं मत्वा द्वितीयदिने समुद्देशनार्थ दर-गुलिका-वृक्ष-शून्यगृहे स्थापयति । दरः-बिलम् , गुलिका नाम-पिटकं बुसपुञ्जो वा, वृक्षशब्देन वृक्षकोटरमुच्यते, यद्वा "गुलिया रुक्ख" ति गुलिकाः-पिण्डकास्तान् कृत्वा वृक्षकोटरे स्थापयति, शुन्यगृह-प्रतीतम् । एतेषु स्थापयित्वा द्वितीयदिवसे मुञ्जानस्य प्रथमभङ्गो भवतीति नियुक्तिगाथासमासार्थः॥२८४९॥
१ » एतन्मध्यगतः पाठः त. डे. मो. ले. नास्ति । “पडिणीयताए जधा कटुस्स । संजतो य तत्थेव लुब्मेजा, एवं परिग्गहे आवजणा" इति चूर्णी विशेषचूर्णौ च ॥ .२°षु तपा-कालविशेषिताश्चत्वारो गुरवः। तत्र भा०॥ ३पिकण्टकं मो. ले.॥ ४°ति गाथा भा० त• डे० ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org