________________
८०६
अथ भाष्यकार एवैनां व्याख्यानयति
सनिर्युक्ति-लघुभाप्य वृत्तिके बृहत्कल्पसूत्रे [ रात्रिभक्तप्रकृते सू० ४२
खमणं मोहतिगिच्छा, पच्छित्तमजीरमाण खमओ वा । गच्छ सचोलपट्टो, पुच्छ दुवणं पढमभंगो ।। २८५० ॥
एकेन साधुना क्षपणं कृतं उपवास इत्यर्थः, तच्च मोहचिकित्सार्थं वा प्रायश्चित्तविशुद्धिहेइनोर्वा अजीर्यमाणभक्तपरिणतिनिमित्तं वा, 'क्षपको वा' एकान्तरितादिक्षपणकर्त्ताऽसौ; तद्दिने च तस्य संज्ञातकानां सङ्खडिरुपस्थिता, तैश्च साधवो भिक्षाग्रहणार्थमामन्त्रिताः, क्षपक साधुश्चानुद्राहितपात्रकः ‘सचोलपट्टः' चोलपट्टकद्वितीयो 'मामेतेऽत्र स्थितमभक्तार्थिनं न ज्ञास्यन्ति, अजानानाश्च न मदर्थं संविभागं स्थापयिष्यन्ति' इति बुद्ध्या प्रस्थितः, आचार्यान् प्रतिब्रवीति च - ते स्वभावत एवातिप्रान्ता मां विना न पर्याप्तं प्रदास्यन्ति, न वा अवगा हिमादीन्युत्कृष्टद्रव्याणि 10 ढौकयिष्यन्ति, ततोऽहं गच्छामीति । स च तत्र गतः सन्ननुग्राहितपात्रको दृष्ट्वा तैः पृष्टःकिमद्योपवासी ज्येष्ठार्यः ? इति । स प्राह – आमम् । ततस्तदर्थमवगाहिमादिसंविभागमभणिता अपि स्थापयन्ति 'कल्ये पारण कदिवसे दास्यामः' इति कृत्वा । यद्यपि ते न स्थापयन्ति तथापि क्षपकस्य चत्वारो गुरुकाः, भावतस्तेन सन्निधिस्थापनायाः कारितत्वात् । द्वितीय दिवसे च तद् गृहीत्वा भुञ्जानस्य प्रथमभङ्गो भवति ॥ २८५० ।। अथातिरिक्तादिपदानि व्याचष्टे - कारणगहिउव्वरियं, आवलियविहीऍ पुच्छिऊण गओ ।
15
भोक्खं सुए दराइसु, ठवेइ साभिग्गहनो वा ॥ २८५१ ॥
30
इह साधूनां भिक्षामटतां कचिदतर्कितः प्रभूतभक्तस्य लाभोऽभवत् सङ्खड्यां वा प्रचुरमवगाहिमादि लब्धम्, अनुपचितक्षेत्रे वा गुरु-ग्लानादीनां प्रायोग्यग्रहणाय सर्वैरपि सङ्घाटकैर्मात्रकाणि व्यापारितानि, एवमादिभिः कारणैः प्रायोग्यद्रव्यमतिरिक्तं गृहीतं तच्चोद्वरितम् । तत 20 आवलिका[ म्]-आचाम्लिका-ऽभक्तार्थिका दिपरिपाटिरूपां विधिना - प्रत्याख्यान निर्युक्तत्यादिशास्त्रप्रसिद्धेन प्रकारेण 'पृष्ट्वा' निमन्त्र्य तथाप्यतिरिक्तं परिष्ठापनाय गत एकान्तमनापातं बहुप्राशुकं स्थण्डिलम् । तत्र च प्राप्त उत्कृष्टाविना शिद्रव्यलोभेन "सुए" त्ति वः' कल्ये भोक्ष्येऽहमिति चिन्तयित्वा दरे आदिशब्दाद् गुलिका - वृक्षको टर-शून्यगृहेषु स्थापयति । स च साभिग्रहो वा _स्याद् 'अन्यो वा' अनभिग्रहः । साभिग्रहो नाम - 'यत् किञ्चिदाहारोपकरणादिकं परिष्ठापना योग्यं 25 भवति तत् सर्वं मया परिष्ठापयितव्यम्' इत्येवं प्रतिपन्नाभिग्रहः, तद्विपरीतोऽनभिग्रह इति ॥ २८५१ ॥ अथैतेषु स्थापयतः प्रायश्चित्तमाह
बिलें मूलं गुरुगा वा, अनंतें गुरु लहुग सेस जं चन्नं । थेय उ निक्खित्ते, पाहुण-साणाइखइए वा ॥ २८५२ ॥ आरोवणा उ तस्सा, बंधस्स परूवणा य कायव्वा । कुल नाम गमाउं, मंसाऽजिन्नं न जाऽऽउट्टो ॥ २८५३ ॥ बिले स्थापयतो मूलं गुरुका वा — यदि वसिमे बिले स्थापयति तदा मूलम्, उद्वसे चत्वारो गुरवः । अनन्तवनस्पतिकोटरे स्थापयतश्चतुर्गुरवः । 'शेषेषु' प्रत्येक वनस्पति कोटर - गुलिका-शून्यगृहेषु स्थापयतश्चतुर्लघवः, यच्च 'अन्यद्' आत्म-संयमविराधनादिकमापद्यते तन्निष्पन्नं प्राय
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org