________________
८०७
भाष्यगाथाः २८५०-५५] प्रथम उद्देशः । श्चित्तम् । अथ स्थविरागृहे स्थापयति ततस्तत्र निक्षिप्ते चत्वारो लघवः । अथ तया तत् प्राघुणकाय दत्तं खयमेव वा प्राघुणकेन भुक्तं श्वान-गवादिभिर्वा भक्षितं तदा 'तस्य' स्थापकस्यारोपणा कर्तव्या, चतुर्लघुकादिकं यथायोग्यं प्रायश्चित्तं दातव्यमिति भावः । तत्र च प्राघुणकादिना भुक्ते कियन्तं कालं यावत् कर्मबन्धो भवति? इत्याशङ्कायां बन्धस्य प्ररूपणा कर्त्तव्या । सा चेयम् - "कुल" इत्यादि । केचिदाचार्यदेशीयाः ब्रुवते-यावत् तस्य प्राघुणकस्य सप्तमः कुलवंशः तावदनुसमयं तस्य स्थापकस्य साधोः कर्मबन्धो मन्तव्यः । अपरे प्राहुः-यावत् तस्य नाम-गोत्रं नाद्यापि प्रक्षीणम् । अन्ये भणन्ति-यावत् तस्यास्थीनि ध्रियन्ते । इतरे ब्रुवतेयावदसावायुर्धारयति । तदपरे कथयन्ति-यावत् तस्य तत्प्रत्ययो मांसोपचयो ध्रियते । अन्ये. प्रतिपादयन्ति-यावत् तस्य तद् भक्तमद्यापि न जीर्णम् । आचार्यः प्राह-एते सर्वेऽप्यनादेशाः, सिद्धान्तसद्भावः पुनरयम् –यावदसौ स्थापकसाधुरद्यापि तस्मात् स्थानाद् 'नावृत्तः' 10 नालोचनाप्रदानादिना प्रतिक्रान्तः तावत् तस्य कर्मबन्धो न व्यवच्छिद्यते ॥२८५२ ॥२८५३ ।। __ गतः प्रथमो भङ्गः । अथ शेषभङ्गत्रयीं भावयति
संखडिगमणे वीओ, वीयारगयस्स तइयओ होइ।
सन्नायगमण चरिमो, तस्स इमे वन्निया भेदा ॥ २८५४ ॥ अपराहे या सङ्खडी तस्यां गमने 'दिवा गृहीतं रात्रौ भुक्तम्' इति द्वितीयभङ्गो भवति । 15 अनुद्गते सूर्ये बहिर्विचारभूमौ गतस्य बलिना निमन्त्रितस्य 'रात्रौ गृहीतं दिवा भुक्तम्' इति तृतीयो भङ्गः । संज्ञातककुलगमने संज्ञातकानामेव वचनेनात्मीयलौल्येन वा रात्रौ गृहीत्वा रात्रावेव भुञ्जानस्य 'चरमः' चतुर्थो भङ्गः । तस्य च चतुर्थभङ्गस्य 'ईमे' वक्ष्यमाणाः प्रायश्चित्तभेदा वर्णिता इति नियुक्तिगाथासमासार्थः ॥ २८५४ ॥ अथैनामेव गाथां व्याख्यानयति
गिरिजनगमाईसु व, संखडि उक्कोसलं. विइओ उ।
अग्गिहि मंगलट्ठी, पंथिग-वइगाइसू तइओ ॥ २८५५ ॥ गिरियज्ञो नाम-कोकणादिदेशेषु सायाह्नकालभावी प्रकरणविशेषः । आह च चूर्णिकृत्
गिरियज्ञः कोङ्कणादिषु भवति उस्सूरे ति । विशेषचूर्णिकारः पुनराह__'गिरिजनो मतबालसंखडी भन्नइ, सा लाडविसए वरिसारत्ते भवइ ति । [ गिरिजन त्ति भूमिदाहो त्ति भणितं होइ।] __तदादिषु सङ्खडिषु वा शब्दादन्यत्र वा कापि » सूर्ये ध्रियमाणे उत्कृष्टम्-अवगाहिमादि द्रव्यं लब्ध्वा यावत् प्रतिश्रयमागच्छति तावदस्तमुपगतो रविः ततो रात्रौ भुत इति द्वितीयो १ 'नावर्त्तते' ना भा० ॥ २ कामति ताव भा० । “गाऽऽउइ ण पडिकमति" इति चूर्णौ ॥
३ इमे भेदा भवन्ति । ते चाग्रतो वक्ष्यन्ते ॥ २८५४॥ अथैनामेव गाथां विवृणोतिगिरि भा० ॥ ४ गिरिनतिजन्नातीसु व ता० ॥ ५गिरिकन्ना मत्त इति विशेषचूर्णिप्रतौ ॥
६॥ एतन्मध्यगतः पाठः भा० त० डे० नास्ति ।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org