________________
८०८
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ रात्रिभक्तप्रकृते सू० ४२
भङ्गः । तथा दक्षिणापथे कुडवार्द्धमात्रया समितया महाप्रमाणो मण्डकः क्रियते, से हेमन्त - कालेऽरुणोदयवेलायां अग्निष्टिकायां पक्त्वा धूलीजङ्घाय दीयते, तं गृहीत्वा भुञ्जानस्य तृतीयो भङ्गः । श्राद्धो वा प्रातर्गन्तुकामः साधुं विचारभूमौ गच्छन्तं दृष्ट्वा मङ्गलार्थी अनुद्गते सूर्ये निमन्त्रयेत्, पथिका वा पन्थानं व्यतित्रजन्तो निमन्त्रयेयुः, व्रजिकायां वाऽनुद्गते सूर्ये उच्चलि - तुकामाः साधुं प्रतिलाभयेयुः, एवमादिषु गृहीत्वा भुञ्जानस्य तृतीयो भङ्गो भवति ॥ २८५५ ॥ अथ चतुर्थभङ्गं व्याख्यानयति
छन्दिय- सयंगयाण व सन्नायगसंखडीइ वीसरणं । दिवसे गते संभरणं, खामण कल्लं न इहि ति ॥ २८५६ ॥
केषाञ्चित् साधूनां संज्ञातकगृहे सङ्घ डिरुपस्थिता, तत्र ते छन्दिताः - निमन्त्रिताः स्वयं वा10 अनिमन्त्रिता गताः । ततः संज्ञातकैस्ते संयता अभिहिताः - अद्य यूयं मा भिक्षां पर्यटत, वयमेव पर्याप्तं प्रदास्याम इति । ते च संयता भोजनकाले परिवेषणादिकृत्यव्यमाणां तेषां विस्मरणपथमुपागमन् । ततो यदा लोकस्य यद् दातव्यं तद् दत्तम्, यच्च कर्त्तव्यं तत् कृतम्, ततः क्षणिकीभूतैस्तैर्दिवसे 'गते' व्यतीते सति संयतानां संस्मरणं कृतम् । ततस्ते रात्रौ प्राञ्जलिपुटाः पादयोः पतित्वा क्षामणां कुर्वन्ति – परिवेषणव्ययैरस्माभिर्यूयं न संस्मृताः, क्षमध्यमस्मदपराधम् गृह्णीध्व15 मस्मदनुग्रहाय भक्तपानमिति । संयता ब्रुवते - कल्ये ग्रहीष्यामः, नेदानीं रात्राविति ॥ २८५६ ॥ गृहस्थाः प्रश्नयन्ति — किं कारणम् ? । संयताः प्रतिब्रुवते —
I
संसत्ता न सुझ, नणु जोण्हा अवि य दो वि उसिनाई । काले अन्भ रए वा मणिदीबुद्दित्तए बेंति ॥ २८५७ ॥
(ग्रन्थाग्रम् - ८००० । सर्वग्रन्थाग्रम् - २०२२० ) रात्रौ भक्तपानं कीटिकादिभिः संसक्त20 मसंसक्तं वेति न शुद्ध्यति, आदिशब्दाद् यूयमस्मदर्थं भिक्षामानयन्तो मार्गे कीटिकादिजन्तूनामाक्रमणं कुरुथ तच्च यूयं वयं च न पश्यामः । तदा च चन्द्रज्योत्स्ना वर्त्तते ततस्ते गृहस्था श्रुवते - नन्वियमीदृशी ज्योत्स्ना या दिवसमपि विशेषयति, अपि च ' द्वे अपि' कूर - कुसणे भक्त-पानके वा उष्णे, नास्ति संसक्तिदोष इति । अथै 'काल : ' कृष्णोऽसौ पक्षो वर्त्तते, शुक्लपक्षे वा. अभ्रच्छन्नो रजश्छन्नो वा चन्द्रो भवेत्, ततस्ते गृहस्थाः “बिंति" चि ब्रुवते - अस्माकं 25 मणिरलमस्ति तेन दिवसोऽपि विशिष्यते, प्रदीपो वा उद्दीप्तं वा - ज्योतिः पूर्वकृतं विद्यते तेन परिस्फुटः प्रकाशो भवति । एवमुक्ते यदि गृह्णन्ति भुञ्जते वा तत इदं नौसंस्थितं प्रायश्चित्तम् ॥ २८५७ ॥ - तैदेव दर्शयति
--
१स गुड-घृतोन्मिश्रोऽरुणोदयवेलायां धूलीजङ्घाय दीयते, एषोऽग्निष्टिकाब्राह्मण उच्यते, तं गृही भा० ॥
२ त० डे० मो० ले० विनाऽन्यत्र - मः, मात्रकस्य चोत्क्षेपण-निक्षेपणादि न शुद्ध्यतीत्यादि । तदा मा० । मः इत्यादिदोषपरिग्रहः । तदा कां० ॥
३ "थवा "काल" ति स कृष्णः पक्षो वर्त्तते, ज्योत्स्नापक्षे भा० ॥
४ भविता भा० कां० ॥
Jain Education International
एतन्मध्यगतः पाठः कां• एव वर्त्तते ॥
५ For Private & Personal Use Only
www.jainelibrary.org