SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ ८०२ भाष्यगाथाः २८५६-५९] प्रथम उद्देशः । जोण्हा-मणी-पदीवा, उद्दित्त जहन्नगाइँ ठाणाई । चउगुरुगा छग्गुरुगा, छेओ मूलं जहण्णम्मि ॥ २८५८॥ ज्योत्स्नाया उद्योते भुञ्जानस्य चत्वारो गुरवः, मणिप्रकाशे पहुरवः, प्रदीपप्रकाशे च्छेदः, उद्दीप्तोद्योते मूलम् । अमूनि प्रायश्चित्तानि ज्योत्लादिपदोपलक्षितानि यथाक्रममघोऽधः स्थापनीयानि । » एतानि जघन्यानि स्थानानि । किमुक्तं भवति'?—प्रसङ्गमन्तरेण जघन्यतोऽप्येतानि प्रायश्चित्तानि द्रष्टव्यानि ॥२८५८॥ अथ प्रसङ्गतो यत् प्रायश्चित्तं भवति तद् बिभणिषुराह ___ भोत्तूण य आगमणं, गुरूहि वसभेहि कुल गणे संघे । आरोवण कायव्वा, बिइया य अभिक्खगहणेणं ॥ २८५९ ॥ रात्रौ ज्योत्स्नाप्रकाशादिषु भुक्त्वा गुरूणां समीपे तेषामागमनम् । आगतैश्चालोचनापरिणतैरन्यथा वा गुरूणां कथितम् । ततो गुरुभिरुक्तम्-दुक्षु कृतं भवद्भिर्यन्निशाभक्तमासेवितम् 110 इत्युक्ते यदि सम्यगावृत्ताः-'मिथ्यादुष्कृतम् , न भूय एवं करिष्यामः' इति ततश्चतुर्गुरवः । अथ नावृत्ताः किन्तु गुरुवचनातिक्रमं कुर्वन्ति–'को नाम दोषो यदि ज्योत्स्वाप्रकाशे दिवससङ्काशे भुक्तम् ?' इति ततः षड्गुरुकाः । वृषभैरभिहिताः-'आर्याः ! किमेवं गुरूणां वचनमतिकामथ ! यदि (इति) वृषभवचने सम्यगावृत्तास्ततः षड्गुरुका एव, अथ वृषभवचनातिक्रमं कुर्वन्ति ततश्छेदः । एवं कुलेन कुलस्थविरैर्वा प्रतिनोदितानां सम्यगावृत्तानां छेद एव, अनावृत्तानां मूलम् । 15 गणेन गणस्थविरैर्वा नोदिता यद्यावृत्तास्ततो मूलमेव, अथ नावृत्तास्ततोऽनवस्थाप्यम् । सङ्घन सङ्घस्थविरैर्वा नोदिताः 'किमिति गणं गणस्थविरान् वा अतिक्रामथ ?' इत्युक्ते यद्यावर्त्तन्ते ततोऽनवस्थाप्यमेव, अनावर्तमानानां पाराञ्चिकम् । एषा च 'आरोपणा' प्रायश्चित्तवृद्धिर्गुरु-वृषभादिवचनातिक्रमनिष्पन्ना प्रागुक्तजघन्यप्रायश्चित्तस्थानेभ्यो दक्षिणतः कर्तव्या । द्वितीया तु रात्रिभक्तस्यैव यद् अभीक्ष्णग्रहणं-पुनःपुनरासेवा तन्निष्पन्ना वामपार्श्वतः कर्त्तव्या । तद्यथा--एक वार 0 ज्योत्स्नाप्रकाशे भुञ्जतश्चत्वारो गुरवः, द्वितीयं वारं षड्गुरवः, तृतीयं वारं छेदः, चतुर्थ वारं मूलम् , पञ्चमं वारमनवस्थाप्यम्, षष्ठं वारं भुञ्जानस्य पाराश्चिकम् , एषा ज्योत्साप्रकाशे प्रायश्चित्तवृद्धिरुक्ता । एवं मणिप्रकाशेऽपि, नवरं गुरुभिः प्रतिनोदिता यद्यावृत्तास्ततः षड्गुरुकम्, अथ गुरुवचनमतिकामन्ति ततश्छेदः; एवं वृषभवचनातिक्रमे मूलम् , कुलस्थविरातिक्रमेऽनवस्थाप्यम् , गणस्थविर-सङ्घस्थविरातिक्रमे पाराश्चिकम् , अभीक्ष्णसेवायां तु पञ्चभिवारैः पाराञ्चि-25 कम् । एवं प्रदीपेऽपि दक्षिणतो वामतश्वारोपणा, नवरमाचार्यातिक्रमे मूलम् , वृषभातिक्रमेऽनवस्थाप्यम् , कुल-गण-सङ्घस्थविरातिक्रमे पाराञ्चिकम् , अभीक्ष्णसेवायां तु चतुर्भिीरैः पाराश्चिकम् । एवमुद्दीप्तप्रकाशेऽपि, नवरमाचार्यातिक्रमेऽनवस्थाप्यम् , वृषभ-कुल-गण-सङ्घस्थविराणां चतुर्णामप्यतिक्रमे पाराच्चिकम् , अभीक्ष्णसेवायां तु त्रिभिवारैः पाराञ्चिकम् , एषा प्रथमा नौरवसातव्या । द्वितीयादयोऽपि वक्ष्यमाणा एवमेव स्थाप्याः ॥ २८५९॥ ११ एतन्मध्यगतः पाठः भा० नास्ति ॥ २°ति? इत्याह-"जहन्नम्मि" ति पञ्चम्यर्थे सप्तमी, ततः प्रस' कां० ॥ ३°ना तेभ्य एव जघन्यप्रायश्चित्तस्थानेभ्यो वाम का.॥ ४°दयस्तु पुरतोऽभिधास्यन्ते ॥ २८५९ ॥ अथ शिष्यः पृच्छति-कुल-गण मा०॥ 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy