________________
८१०
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ रात्रिभक्तपकृते सू० ४२ ___ शिष्यः प्राह-कुल-गण-सङ्घस्थविरवचनमतिकामतां यद् गुरुतरं प्रायश्चित्तमुक्तं तदत्र किं कारणम् ? अत्रोच्यते-एते त्रयोऽपि स्थविरा आचार्यादपि गरीयांसो मन्तव्याः, प्रमाणपुरुषतया स्थापितत्वात् । कथं पुनरेते प्रमाणपुरुषाः ? उच्यते
तिहिं थेरेहिँ कयं जं, सटाणे तं तिगं न वोलेइ ।
हेट्ठिल्ला वि उवरिमे, उपरिमथेरा उ भइयव्या ॥ २८६० ॥ 'त्रिभिः' कुल-गण-सङ्घस्थविरैः यद् आभवयवहारादिविषयं कार्य कृतं तत् कार्य खस्थाने 'त्रिकं' कुल-गण-सङ्घलक्षणं 'न वोलयति' न व्यतिक्रामतीत्यर्थः । किमुक्तं भवति ?-कुलस्थ. विरेण कृतं कुलं नातिकामति, गणस्थविरेण कृतं गणो नातिकामति, सङ्घस्थविरेण कृतं सङ्घो
नातिकामति' । "हेट्ठिल्ला वि उवरिमे" ति 'अधस्तनाः' कुलस्थविरास्तेऽप्युपरितनैः-गणस्थ10 विरैः सङ्घस्थविरैश्च कृतं नातिकामन्ति, तथा गणस्थविराः सङ्घस्थविरेभ्योऽधस्तनास्ततो यत् सङ्घस्थविरैः कृतं तद् गणस्थविरा नातिकामन्ति । उपरितनास्तु स्थविराः 'भक्तव्याः' विकल्पयितव्याः । कथम् ? इति चेद् उच्यते-कुलस्थविरैररक्तद्विष्टैर्यत् कृतं तद् गणस्थविराः सङ्घस्थविराश्च नान्यथा कुर्वन्ति, अथागमोक्तविधिमन्तरेण रक्तद्विष्टैः कृतं ततस्तन्न प्रमाणयन्ति ।
एवं गणस्थविरैरपि यदरक्तद्विष्टैः कृतं तत् सङ्घस्थविरा नातिकामन्ति, अथ रक्तद्विष्टैः कृतं ततो 15 न प्रमाणयन्ति । अत एतेषु गुरुतरं प्रायश्चित्तम् ॥ २८६० ॥ ... अथ द्वितीयतृतीयचतुर्थनौदर्शनार्थमाह
चंदुजोर्वे कों दोसो, अप्पप्पाणे य फासुए दवे ।
. भिक्खू वसभाऽऽयरिए, गच्छम्मि य अट्ठ संघाडा ॥ २८६१॥ - ज्योत्स्नाप्रकाशे भुक्त्वा समागत्य गुरूणामालोचयन्ति ततो भिक्षुभिः प्रतिनोदिता यदि 20 सम्यगावर्तन्ते ततश्चतुर्गुरुकमेवे । अथ ब्रुवते-'चन्द्रोद्योते को नाम दोषः ? को वा अल्पप्रा
णेऽवगाहिमादौ प्राशुके द्रव्ये ?' एवं भणतां षड्लघवः । ततो वृषभैरभिधीयन्ते-'आर्याः ! मा भिक्षूणामतिक्रमं कुरुत' यद्यावर्तन्ते ततः षड्लघुका एव, अथ वृषभानतिकामन्ति ततः षड्रुकाः । तत आचार्यैरभिहिता यद्यावृत्तास्ततः षड्गुरुका एव, अनावृत्तानां छेदः । “गच्छम्मि य" ति कुल-गण-सङ्घा इह गच्छशब्देनोच्यन्ते, ततः कुलेन भणिता यदि सम्यगुपरतास्ततश्छेद 26 एव, अथ नोपरमन्ते ततो मूलम् । गणेनाप्यभिहिता यद्यावृत्तास्ततो मूलम् , अथ नावृत्तास्ततोऽ
नवस्थाप्यम् । ततः सङ्घनाभिहिता यधुपरमन्ते ततोऽनवस्थाप्यम् , अथ नोपरमन्ते ततः पाराञ्चिकम् । एषा प्रायश्चित्तवैद्धिदक्षिणतः कर्त्तव्या । अभीक्ष्णसेवायाम्--द्वितीयं वारं ज्योत्स्नाप्रकाशे भुञ्जानस्य षड्लघुकम् , तृतीयं वारं षड्गुरुकम् , चतुर्थं छेदः, पञ्चमं मूलम् , षष्ठमनवस्थाप्यम् , सप्तमं वारं पाराञ्चिकम् , एषा प्रायश्चित्तवृद्धिर्वामतः स्थापयितव्या । एवं मणि-प्रदी
१°ति । अथवा "तत्तियं" ति पाठः, तावन्मात्रमेव कार्य कुलादयो व्यवहरन्ति यावमात्रं कुलस्थविरादिभिः कृतं नोपरिणाद् व्यवहारं संवर्द्धयन्ति । "हेट्ठि' भा० ॥ २°व, रात्रिभक्त प्रतिसेवनानिष्पन्न मिति भावः । अथ कां० ॥ ३. वृद्धिस्तथैव प्रागुक्तजघन्यप्रायश्चित्तस्थानेभ्यो दक्षि कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org