Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha
View full book text
________________
दशाम
*
उपासक-ला
'तेणाहडे त्ति' स्तेनाहृतं चौरानीतं, तत्समय॑मितिलोभात्काणक्रयेण गृह्णतोऽतिचरति तृतीयव्रतमित्यतिचारहेतुत्वात्स्तेनाहृतमति॥८॥
चार उक्तः । अतिचारता चास्य साक्षाचौर्याप्रवृत्तेः १ — तक्करप्पओगे.त्ति तस्करप्रयोगश्चौरब्यापारणं, हरत यूयमित्येवमभ्यनुज्ञानमित्यर्थः । अस्याप्यतिचारतानाभोगादिभिरिति २ 'विरुद्धरज्जाइक्कमे त्ति' विरुडनृपयो राज्यं विरुद्धराज्यं, तस्यातिक्रमोऽतिलकनं विरुहराज्यातिक्रमः। न हि ताभ्यां तत्रातिक्रमोऽनुज्ञातश्चौर्यबुद्धिरपि तस्य तत्र नास्तीत्यतिचारतास्यानाभोगादिना चेति ३ 'कूडतुल्लकूडमाणे त्ति' तुला प्रतीता, मानं कूडवादि, कूटत्वं न्यूनाधिकत्वम् । ताभ्यां न्यूनाभ्यां ददतोऽधिकाभ्यां च गृह्णतोऽतिचरति व्रतमित्यतिचारहेतुत्वादतिचारः कूटतुलाकूटमानमुक्तम् । अतिचारलं चास्यानाभोगादेः, अथवा नाहं चौरः क्षात्रखननादेरकरणाद् इत्यभिप्रायेण व्रतसापेक्षत्वात् ४ ' तप्पडिरूवगववहारे ति' तेनाधिकृतेन प्रतिरूपकं सदृशं तत्पतिरूपकं, तस्य विविधमवहरणं व्यबहारः प्रक्षेपस्तत्पतिरूपकव्यवहारः । यद्यत्र घटते
वीहिघृतादिषु पलीवसादि तस्य प्रक्षेप इति यावत् , तत्प्रतिरूपकेन वा वसादिना व्यवहरणं तत्प्रतिरूपकव्यवहारः। अतिचारता चास्य ॐ पूर्ववत् ५ ॥ ४७॥ __तयाणन्तरं च णं सदारसन्तोसीए पञ्च अइयारा जाणियवा, न समायरियवा । तं जहा-इत्तरियपरिग्गहियागमणे, अपरिग्गहियागमणे, अणङ्गकीडा, परविवाहकरणे, कामभोगतिवाभिलासे ४ ॥४८॥
'सदारसन्तोसीए ति' स्वदारसन्तुष्टेरित्यर्थः । इत्तरियपरिग्गहियागमणे त्ति' इत्वरकालपरिगृहीता, कालशब्दलोपादित्वरपरिगृहिता, भारीप्रदानेन कियन्तमपि कालं दिवसमासादिकं स्ववशीकृतेत्यर्थः, तस्यां गमनं मैथुनासेवनमित्वरपरिगृहीतागमनम् । अतिचार
35*
35*

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118