Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha
View full book text
________________
___ उपासक- उदग्गं पिटुओ वराहं अयाकुच्छिं अलम्बकुच्छिं पलम्बलम्बोदराधरकरं अब्भुग्गयमउलमल्लियाविमलधवल-दशाङ्गय. ॥२६॥ दन्तं कञ्चणकोसीपविठ्ठदन्तं आणामियचावललियसंवल्लियग्गसाण्डं कुम्मपडिपुण्णचलणं वीसइनक्खं & अल्लीणपमाणजुत्तपुच्छं ॥ १०१॥
चालयितुं-अन्यथा कर्तुम् । चलनं च द्विधा संशयद्वारेण विपर्ययद्वारेण च । तत्र क्षोभयितुमिति संशयतो, विपरिणमयितुमिति | च विपर्ययतः । श्रान्तादयः समानार्थाः । ' सत्तङ्गपइट्ठियं ति ' सप्ताङ्गानि-चत्वारः पादाः करः पुच् शिश्नं चेति, एतानि प्रतिष्टितानिभूमौ लग्नानि यस्य तत्तथा । 'सम्मं ' मांसोपचयात्संस्थितम् । गजलक्षणोपेतसकलाङ्गोपाङ्गत्वात्सुजातमिव सुजातं पूर्णदिनजातम् । पुरतोऽप्रत उदग्रं-उच्चं समुच्छ्रितशिर इत्यर्थः । पृष्ठतः-पृष्ठदेशे वराह:-शूकरः स इव बराहः, प्राकृतत्वान्नपुंसकलिङ्गता। अजाया इव कुक्षियस्य तदजाकुक्षि। अवलम्बकुक्षि बलवत्वेन, प्रलम्बो-दीर्घो लम्बोदरस्येव गणपतेरिव अधरः-ओपः करश्च-हस्तो यस्य तन्मलम्बलम्बोदराधरकरम् । अभ्युद्गतमुकुला आयतकुद्मला या मल्लिका-विचकिलस्तदुत् विमलधवलौ दन्दौ, गस्य अथवा प्राकृतत्वान्मल्लिकामुकुल वदभ्युद्गतौउन्नतौ विमलधवलौ च दन्तौ यस्य तदभ्युद्गतमुकुलमल्लिकाविमलधवलदन्तम् । काञ्चनकोशीपविष्टदन्तं, कोशी-प्रतिमा। आनामितंईषन्नामितं यच्चापं-धनुस्तद्वद्या ललिता च-विलासवती, संबंल्लिता न वेल्लन्ती सङ्कोचिता वा, अग्रगुण्डा गुण्डाग्रं यस्य तत्तथा । कूर्मवत्कूर्माकाराः प्रतिपूर्णाश्चरणा यस्य तत्तथा । विंशतिनखम । आलीनप्रमाणयुक्तपुच्छमिति कण्ठ चम् ॥११॥
128
उन
॥२६॥

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118