________________ षष्ठः सर्गः अन्वयः-प्रमोदाश्रु-लवेन स्विद्यत् , पक्ष्मभिः रोमाञ्चभृत् ( च ) अस्य वामम् चक्षुः, पुनः स्फुरत्त्वात् कम्प्रम् अपि अन्यत् (दक्षिणं चक्षुः ) तस्याः पुरः नवोपभोगम् प्राप। ____टीका--( दमयन्त्या नगर्या दर्शनात्) प्रमोदेन आनन्देन यः अश्रण: वाष्पस्य (तृ० तत्पु० ) लवः लेशः (ष. तत्पु०) तेन स्विद्यत् स्वेदयुक्तं भवत् , ( तथा ) पक्षमभिः नेत्रलोमभिः नेत्रलोमरूपेणेति यावत् रोमाञ्चं बित्ति धारयतीति तथोक्तम् ( उपपद तत्पु० ) रोमाञ्चयुक्तमिति यावत् अस्य नलस्य वामम् सव्यं चक्षुः नेत्रम् , पुनः तथा स्फुरतो भावः स्फुरत्त्वम् तस्मात् स्फुरणरूपेणेत्यर्थः कम्प्रम् कम्पनशीलम् , वेपथुयुक्तमिति. यावत् अपि अन्यत् वामेतरम् अर्थात् दक्षिणम् चक्षुः अपि तस्याः प्रसिद्धायाः पुरः नगर्या कुण्डिनपुर्या इति यावत् नवः नूतनः प्रथम इत्यर्थः यः उपभोगः सङ्गमः सोक्षात्कार इत्यर्थः तम् ( कर्मधा० ) प्राप प्राप्तमकरोत् / नलस्य द्वयोरपि वाम-दक्षिण-चक्षुषोः प्रेयस्याः कुण्डिनपुर्याः प्रथम-साक्षात्कारे स्वेद-रोमाञ्च-वेपथुरूपेण सात्त्विकभावाः प्रादुरभवन्निति भावः / / 6 // ____ व्याकरण-प्रमोदः प्रकृष्टो मोद इति प्र + / मुद् + घञ् ( भावे ) / स्विद्यत् /स्विद् + शतृ नपुं० / रोमाञ्चः रोम्णाम् अञ्चः ( उद्गमनम् ) इति रोम + अञ्च् + घञ् / भृत् भृ + विप् ( कर्तरि / / स्फुरत्त्वात् / स्फुर् + शतृ + त्व ( भावे ) / कम्प्रम् कम्पितुं शीलमस्येति /कम्प् + र: (ताच्छील्ये ) / ___ अनुवाद-( नगरी को देखकर ) आनन्द के अश्रु-कण के रूप में स्वेद ( पसीना ) छोड़ता हुआ ( तथा ) वरोनियों के रूप में रोमाञ्च धारण किये इस ( नल ) का बायाँ चक्षु एवं ( स्वेद और रोमाञ्च के अतिरिक्त ) फड़कने के रूप में कँपकँपी भी रखता हुआ दूसरा-दायाँ-चक्षु भी उस नगरी के प्रथम साक्षात्कार का आस्वाद ले रहा था // 6 // टिप्पणी-प्रेयसी के साथ पहली मुलाकात' में प्रेमी को स्वेद, रोमाञ्च और वेपथु आदि सात्त्विक भाव होना स्वाभाविक ही है। प्रकृत में प्रेयसी बनी कुण्डिनपुरी और प्रेमी बने नल के बायें-दायें चक्षु / आनन्दाचकण पर स्वेदत्व का, वरोनियों पर रोमाञ्चत्व का और स्फुरण पर वेपथुत्व का आरोप किया गया है। पुरी और चक्षुओं पर स्त्री और पुरुष का व्यवहार-समारोप होने से यहाँ समासोक्ति है, जिसका रूपक के साथ अङ्गाङ्गिभाव-संकर है।