Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha
View full book text
________________
१७७
तरङ्ग ७/ कथा १५३/१५४ स तामादाय देवकुलपुरः समेतो मित्रमवोचत् । हे मित्र! महादेवं प्रणम्य यावदागच्छामि तावद्भवताऽत्रैव स्थेयमिति मध्ये गत्वा करवालकृत्तस्वशिर:कमलेन महेश्वरस्य पूजां विधाय मृते तस्मिंस्तत्रैव पतिते विलम्बं विलोक्य मध्ये समेत: केशवस्तं तथाविधं विलोक्य दध्यौ, यद्यहमेनामादाय गृहे गच्छामि, तदाऽवश्यमस्यां लुब्धेनाऽनेन मित्रद्रोहिणा पापिना स्वसुहृन्निहत इति मम कलङ्को भवितेति तस्मिन्नपि तथैव पतिते, द्वयोरपि विलम्बन भृशं भीता मध्ये गता सा तयोरिमामवस्थां विलोक्य दध्यौ, यद्यहं श्वशुरस्य पितुर्वा गृहमेकाकिनी यामि, तदा स्वैरिण्याऽनया पतिदेवरौ हताविति कलङ्कः स्यात्तेन ममाप्यनयोरिव युक्तमिति तेनैवाऽसिना स्वं शिरश्छेत्तुमुद्यतां तां प्रत्यक्षीभूतो भूतेशः स्त्रीहत्यापातकं नाऽऽददेऽहमिति वदन् तत्करादसिमपनयति स्म।
कलङ्ककलितायाः पतिरहितायाश्च मम जीवितेन किं? तेन यदीमौ जीवयिष्यसि तदा मम प्राणा नान्यथेति तन्निर्णयं ज्ञात्वा, मम प्रक्षालनवारिणाभिषिक्तौ द्वावपीमौ जीविष्यत इति भगवता शम्भुना भणितमाकर्ण्य तयाप्यौत्सुक्येन विपरीततया सन्धितमस्तकौ तथैवाऽभिषिक्तौ तौ जीवितौ। हे दीप! तदर्थं मिथः कलहायमानयोस्तयोः कस्येयं गृहीणीति योगिना पृष्टे तां जल्पयितुमुत्सुकेन दीपान्तःस्थेन वैतालेन पतिमुखस्य पत्नीत्यसमञ्जसं भणितमाकर्ण्य जातकोपाऽऽटोपा विस्मृतस्वनिर्णया सा- रे पापदीप ! मा मृषा ब्रूहीति बाढस्वरेणाऽभणत् । राजकन्यैकशो जल्पितेति निःस्वाने प्रहारमदापयत् । हे योगीन्द्र ! कस्येयं पत्नीति दीपेन प्रतिपादिते मित्रमुखस्येति योगिनाऽभिहिते कथमिति दीप: पुनरप्राक्षीत् । विवाहावसरे हि दक्षिणः करो दीयते, स तु कबन्धगत एव स्यादिति योगिना भणिते एकशोऽनेनाऽहं जल्पिता त्रयो वाराश्चावशिष्यन्ते, तेन विशेषतो मौनवती सा तस्थौ । इत्येका कथा ॥ १५३ ॥
॥१५४ ॥ कौशल्ये द्वितीया कथा ॥ अथ पुनरपि दीपवत्कन्याकुण्डलमाभाष्य योगी कथां कथयति स्म । तथाहि- धनरथे नगरे बलदत्तश्रेष्ठिनो द्विधा रूपवती सुता, सा च पितृमातृभ्रातृमातुलैः पृथक्पृथक्वरेभ्यो दत्ता। अथ विवाहार्थमागतांश्चतुरोऽपि मिथो विवदमानान् विलोक्य मदर्थमहो महान् कलह इति सा जीवन्त्येव वह्नौ प्रविश्य भस्मसादासीत् । तदा तेषामेकस्तया सममग्नौ प्रविष्टः, द्वितीयस्तु स्मशाने भूमिगृहं कृत्वा तस्थौ । तृतीयस्तु भिक्षाचरो भूत्वा भिक्षया लब्धस्यांऽशं चितोपरि विमुच्य शेषं स्वयमत्ति स्म । चतुर्थस्तु तदस्थीन्यादाय गङ्गां गच्छन् पथि प्राप्ते महानन्दिपुरे भिक्षार्थं प्रविष्टो मानदत्त श्रेष्ठिनो गृहं गतः । तदा च पतिव्रतां कमलश्रीनाम्नीं तदङ्गनां भिक्षादानेऽन्तरायं कुर्वाणं भृशं रुदन्तं स्वं बालं चुल्हीवह्नौ प्रक्षिप्य भिक्षां दातुमुपस्थितां सोऽवोचत् । हे मातर्मदर्थं बालहत्या जाता, तेनेमां भिक्षामहं न लास्यामीति निषिध्य प्रतिनिवृत्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380