Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha

View full book text
Previous | Next

Page 292
________________ तरङ्ग ९/ कथा २१७ ॥ २१७॥ दैवविलसिते सर्पगजाऽऽखेटकशृगालकथा ॥ Jain Education International सर्वत्र दैवमेव बलवत्तरं, यतः धिक् पौरुषं कुलमपि प्रगुणान् गुणांश्च, दैवं बलीय इति मुञ्च सखे ! विषादम् । पञ्चाननो गिरिगुहागहनप्रवासी, वासालये वसति भूमिभुजां बिडाल: लोका अप्येतदेव दैवचरित्रं प्रतिपादयन्ति । यतः - ॥ १ ॥ तृणति वज्र वज्रति तृण कोटिंब बूड उगाह तरइ । असपति मारिससि सटवइ सिरिओ नहनके छत्र धरइ ॥ रीते भरइ भरे ग्रहि ढोरइ, जो चाहइ तो बुहडि भरइ । अलहदहो अलहकी करणी उहु करंति उहु कयान करइ ॥ २॥ दैवं हि मनश्चिन्तितमन्यथा क्षणेन करोति, यतः - अचिन्त्यमाहात्म्यमयं समेभ्यो, दैवं बलीयो बलवत्तरेभ्यः । सर्पद्विपाऽऽखेटकजम्बुकानां, यन्मृत्युरेषां युगपद् बभूव ॥ ३॥ तथाहि - एतेषां कथानकं चैतेभ्यः काव्येभ्योऽवसेयम् । स्थित्वा रन्ध्रमुखे सुखेन निखिलान् शीतान् सुगन्धीन् मृदून्, वायून् पानपथे विधाय विधिना तुष्टिं विधास्ये भृशम् । इत्थं स्वार्थमनोरथप्रथितधीः सर्वंसहासुन्दरीवेणीदण्ड इवाऽसितः स्वदरतः काकोदरो निर्ययौ ॥ ४॥ उत्क्षिप्तैः करिणीकरैः सुखकरै रेवाजलैः शीतलैः, स्नात्वा तत्तटयोः करेणुभिरहं क्रीडां करिष्ये चिरम् । ध्यात्वैवं मदगन्धलुब्धमधुपैर्भ्राम्यद्भिरुद्भ्राजितो, भ्राता विन्ध्यगिरेरिवोन्नतवपुर्विन्ध्यात्करी निर्ययौ || 411 हत्वा मत्तमतङ्गजं कमपि तत्कुम्भस्थलाऽऽस्फालनादादत्तैर्वरमौक्तिकैर्निजकुलं नेष्यामि तोषं क्षणात् । एवं लोभभराऽभिभूतहृदयः पाणौ दधानो धनुर्व्याधस्तामटवीमटन् करटिनं दृष्ट्वैव हृष्टः स्फुटम् ॥ ६॥ निष्प्राणं करिणं तथैव हरिणं क्रोडं तथा कासरम्, लब्ध्वा तत्पिशितैर्जलाञ्जलिमहं दास्ये क्षुधामात्मनः । इत्याशावशवंशविद्धहृदयः सर्वत्र दृष्टिक्रियां, कुर्वाणो गिरिगर्भगह्वरगृहाद् गोमायुरागाद्वनम् ॥ ७ ॥ दष्टस्तेन भुजङ्गमेन मृगयुस्तेनापि स भ्रस्यता । सर्पोऽमारि ससंभ्रमं तदिषुणा तेनापि हस्ती हतः । स व्यापादि गजेन तेन पतता फेरुस्तदेवं ययु-श्चत्वारोऽपि निकेतनं पितृपतेश्चित्रं विधेश्चेष्टितम् ॥८॥ इति दैवविलसिते सर्पगजाऽऽखेटक शृगालकथा ॥ २९७॥ २४७ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380