Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha
View full book text
________________
तरङ्ग १०/ कथा २४४/२४६
२८३ ससुतः श्रेष्ठी स्वस्थानमागत्य तां च कनकसेनां कुट्टिनी धनादिना सत्कृत्य सुखभाग्बभूव। ॥ इति कैतवे मदिरावेश्याकथा ॥ २४४॥
॥२४५॥ कलाकौशले धर्माभिधशाकुनिकथा॥ एकाऽपि सदभ्यस्ता कला पुंसां श्रीदायिनी भवति, यतःकिमेकापि कला पुंसां, सदभ्यस्ता सुखाय न। शकुनान्मुष्टिमुक्ताज्ञो, राज्ञाऽमानि धनैर्यतः ॥ १॥
तथा हि-धनोरग्रामे सुमतिराजस्य धर्माभिधो वृद्धोऽतीवावगतशकुनशास्त्रः शाकुनिकः। स च राज्ञः प्रसादपात्रं, एकदा सुबुद्धिना मन्त्रिणा राज्ञेऽभाणि, हे देवाऽयं प्रवयाः शाकुनिको भवतां भूरिग्रामादिधनं भुङ्क्ते, तेनाऽस्य शकुनविषये कलाकौशलं विलोक्यते। यदि चास्य शकुनविज्ञानमात्मनां मनसि चमत्कारकारि स्यात्तदाऽस्य दानं रम्यं, न चेत्किमस्य दानेन ? इति विमृश्यैकदा राज्ञा मुष्टिमुद्रां विधाय स धर्मोऽभ्यधायि, हे शाकुनिकशिरोमणे! किमस्ति मम मुष्टिमध्ये ? शकुनं विलोक्य वक्ष्ये इत्यभिधाय मुद्रितमुष्टिं राजानं प्रणम्य स सभातो बहिर्ययौ। अथ शकुनज्ञानतो निर्णीतक्षितिनाथमुष्टिमध्यवस्तुस्वरूपः स समागत्य राजानमभणत्, हे देव! युष्मन्मुष्टिमध्ये मौक्तिकानि सन्तीत्यभिहिते राजा पुनरूचे, किं तानि मौक्तिकानि विद्धान्यथवा तान्यविद्धानि सन्तीत्याऽऽकर्ण्य स पुनर्बहिर्गत्वाऽऽगत्य चाऽविद्धानि सन्तीति राजानमवादीत्।
कथमवगतमेतदिति राज्ञा पृष्टः सोऽभाषिष्ट, हे स्वामिनितो बहिर्गच्छता मया पुरतः प्रथममेव गृहोपरिभूमौ मज्जनं विधायोत्थितायाः कस्याश्चिन्मृगीदृशः केशेभ्यः पतन्तः श्वेततराः पयोबिन्दवो वीक्षाञ्चक्रिरे, तेन मया मौक्तिकानि ज्ञातानि। विद्धत्वाऽविद्धत्वनिर्णयश्च कथं व्यधायि?। सा सारङ्गशावाक्षी परिणीता नास्तीति पुनस्तत्स्वरूपज्ञानेनैतानि मौक्तिकान्यविद्धानि सन्तीति तन्निर्णयमहमकार्षम् । अहो! अस्य प्रवयसोऽपि शकुनज्ञानम् ! अहो! अस्य बुद्धिधनम् ! अहो! अस्य कौशलमित्यभीक्ष्णमभिनन्दितः स राज्ञा, किं बहुना? तद्दिवसतो विशेषेण स राज्ञा धन-कनकग्रामादिदानेन प्रतिदिनं सदकारि। ॥ इति कलाकौशले धर्माऽभिधशाकुनिककथा ॥ २४५॥
॥२४६॥ पुण्यप्रभावे पत्तनाऽधीशभीमनूपकथा॥ पुण्यादेव हि पुंसामीप्सितार्थसिद्धिः, यतःधर्माजन्म कुले शरीरपटुता सौभाग्यमायुर्बलं, धर्मेणैव भवन्ति निर्मलयशोविद्यार्थसम्पत्तयः । कान्ताराच्च महाभयाच्च सततं धर्मः परित्रायते, धर्मः सम्यगुपासितो भवति हि स्वर्गाऽपवर्गप्रदः ॥१॥ मन्त्र-यन्त्र-तन्त्रौषधादीनामपि सिद्धिः पुण्यैरेव स्यात्, यतः
वैद्यैरनुक्तादपि भेषजात्स्या-द्रोगक्षयः पुण्यवशेन पुंसाम् ।
यन्मर्तुकामस्य महीभुजोऽभू-दीक्षोर्दलेनाऽपि रुजो विमुक्तिः ॥ २ ॥ तथाहि-सप्तदशसहस्रग्राममण्डितश्रीगुर्जरात्रदेशाधिराजः श्रीभीमनामा महीपतिः पत्तने राज्यं करोति स्म। तस्य च पूर्वोपार्जितकर्मवशेन महान् कुरोगः प्रादुरासीत्। स च रोगः प्रभूतैरपि मन्त्र-यन्त्र-तन्त्रौषधैरुपचरितोऽपि न शान्तिमेति स्म। तेन रोगेण रात्रौ उपरोममूलं कृमयः स्युः, तत्पीडितस्य राज्ञः सर्वथा निशि निद्रा नैति। किं बहुना?
तेन रोगेण पराभूतः स राजा कालकूट-कण्ठपाश-शस्त्रघात-कूपपातादिभिर्मरणोपायैमुमुर्घरजनि। अन्येधुस्तस्य राज्ञः पर्षदीति किंवदन्ती भवति स्म, चित्रकूटदुर्गे करणसिंहस्य राज्ञः प्रसादपात्रं गोविन्दसंज्ञो महावैद्योऽस्ति । जीवातुरिव स भिषग्वरेण्य आयुषः सन्धानं विना सकलानपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380