Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha

View full book text
Previous | Next

Page 337
________________ २९२ क्यारत्नारेश्री हेमविजयरचिते सर्वशास्त्रविशारदो मधुरतरभाषी च स द्विजो विनयवताऽनेन फलादिढौकनपूर्वं पृष्टः स्वप्रफलं, दुष्टोऽयं स्वप्न इत्यस्य मरणमासन्नं ज्ञात्वापि मधुरभाषित्वेन स द्विजो मधुरतरं बभाषे, हे श्रेष्ठिन् ! स्वप्नोऽसौ शोभनतमः, तेन त्वं त्वत्पुत्र-कलत्र-मित्र-मातृ-पितृप्रभृतिनिखिलपरिच्छदयुतश्च दुःखभाग् न भविष्यसीति श्रुत्वा मुदितमनस्कः स श्रेष्ठी यथोचितं विधत्ते स्म। इति वचनमाधुर्ये वैकुण्ठविप्रकथा ॥ २५२॥ ॥२५३॥ शीलपालने सुरूपानामश्रेष्ठिवधूकथा ॥ शीलं हि सर्वेषामपि भूषणं, यतः ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो । ज्ञानस्योपशमः कुलस्य विनयो वित्तस्य पात्रे व्ययः । अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्व्याजता । सर्वेषामपि कीर्तिकारणमिदं शीलं परं भूषणम् ॥ १ ॥ अपि च मुखमंडण साचुं वयण, विण तंबोलह रंग । शील शरीरइ आभरण, सोनइ भरिउं अंग ॥२॥ किं बहुना ? स्वर्गापवर्गादिसुखं शीलादेव, यत: व्याघ्र-व्याल-जला--ऽनलादिविपदस्तेषां व्रजन्ति क्षयं, कल्याणानि समुल्लसन्ति विबुधाः सान्निध्यमध्यासते । कीर्तिः स्फूर्तिमियर्ति यात्युपचयं धर्मः प्रणश्यत्यघं, स्वर्निर्वाणसुखानि सन्निदधते ये शीलमाबिभ्रते ॥ ३॥ तेन ये केऽपि पुण्यभाजः स्वशीलमुपायै रक्षन्ति ते धन्याः, यतःरक्षन्त्युपायैः स्वशीलं, धन्या काश्चित् सुलोचनाः । पक्षिप्रेषणतोऽरक्षि, यत्स्वशीलं सुरूपया ॥४॥ तथाहि-धारावासे नगरे मणिशूरस्य राज्ञो धनचन्द्रो नगरश्रेष्ठी, तस्य च वीरचन्द्रः पुत्रः, तस्य च मणिसारेण राजसूनुना समं मैत्री। एकदा वीरचन्द्रे ग्रामान्तरं गते द्विधा सुरूपाममुष्य वीरचन्द्रस्य गृहिणीं गवाक्षस्थां राजपुत्रोऽपश्यत्।। इन्दुकलामिव निष्कलङ्कां तामालोक्य समुल्लसितरागसागरः स सर्वत्र सञ्चारिण्या: स्वसञ्चारिण्या हस्तेन ताम्बूल-कनक-कङ्कण-कुसुम-चीनचेलादि शोभनं वस्तु तद्गृहे प्राहिणोत्। सतीनां परपुरुषप्रहितताम्बूलाद्यमरक्षणीयमपि सा मत्पतिमित्रमयमिति धिया तत्सर्वं प्रतिजग्राह। इति दूतीकरण प्रहितं तत्सर्वमाददानायास्तस्याः पक्षद्वयी व्यतिचक्राम। सुभगशिरोमणिर्मणिसारः क्षमापकुमारस्त्वत्सम्भोगमीहते इति दूत्यैकदाभिहिते शीलालङ्कारशालिनी सा सुरूपा भूपसूनो: शिक्षां दातुमनाः कपटेनेति तामाह, इतः सप्तमेऽहनि ममौकसि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380