________________
२९२ क्यारत्नारेश्री
हेमविजयरचिते सर्वशास्त्रविशारदो मधुरतरभाषी च स द्विजो विनयवताऽनेन फलादिढौकनपूर्वं पृष्टः स्वप्रफलं, दुष्टोऽयं स्वप्न इत्यस्य मरणमासन्नं ज्ञात्वापि मधुरभाषित्वेन स द्विजो मधुरतरं बभाषे, हे श्रेष्ठिन् ! स्वप्नोऽसौ शोभनतमः, तेन त्वं त्वत्पुत्र-कलत्र-मित्र-मातृ-पितृप्रभृतिनिखिलपरिच्छदयुतश्च दुःखभाग् न भविष्यसीति श्रुत्वा मुदितमनस्कः स श्रेष्ठी यथोचितं विधत्ते स्म। इति वचनमाधुर्ये वैकुण्ठविप्रकथा ॥ २५२॥
॥२५३॥ शीलपालने सुरूपानामश्रेष्ठिवधूकथा ॥ शीलं हि सर्वेषामपि भूषणं, यतः
ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो । ज्ञानस्योपशमः कुलस्य विनयो वित्तस्य पात्रे व्ययः । अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्व्याजता ।
सर्वेषामपि कीर्तिकारणमिदं शीलं परं भूषणम् ॥ १ ॥ अपि च
मुखमंडण साचुं वयण, विण तंबोलह रंग ।
शील शरीरइ आभरण, सोनइ भरिउं अंग ॥२॥ किं बहुना ? स्वर्गापवर्गादिसुखं शीलादेव, यत:
व्याघ्र-व्याल-जला--ऽनलादिविपदस्तेषां व्रजन्ति क्षयं, कल्याणानि समुल्लसन्ति विबुधाः सान्निध्यमध्यासते । कीर्तिः स्फूर्तिमियर्ति यात्युपचयं धर्मः प्रणश्यत्यघं,
स्वर्निर्वाणसुखानि सन्निदधते ये शीलमाबिभ्रते ॥ ३॥ तेन ये केऽपि पुण्यभाजः स्वशीलमुपायै रक्षन्ति ते धन्याः, यतःरक्षन्त्युपायैः स्वशीलं, धन्या काश्चित् सुलोचनाः । पक्षिप्रेषणतोऽरक्षि, यत्स्वशीलं सुरूपया ॥४॥
तथाहि-धारावासे नगरे मणिशूरस्य राज्ञो धनचन्द्रो नगरश्रेष्ठी, तस्य च वीरचन्द्रः पुत्रः, तस्य च मणिसारेण राजसूनुना समं मैत्री। एकदा वीरचन्द्रे ग्रामान्तरं गते द्विधा सुरूपाममुष्य वीरचन्द्रस्य गृहिणीं गवाक्षस्थां राजपुत्रोऽपश्यत्।।
इन्दुकलामिव निष्कलङ्कां तामालोक्य समुल्लसितरागसागरः स सर्वत्र सञ्चारिण्या: स्वसञ्चारिण्या हस्तेन ताम्बूल-कनक-कङ्कण-कुसुम-चीनचेलादि शोभनं वस्तु तद्गृहे प्राहिणोत्। सतीनां परपुरुषप्रहितताम्बूलाद्यमरक्षणीयमपि सा मत्पतिमित्रमयमिति धिया तत्सर्वं प्रतिजग्राह। इति दूतीकरण प्रहितं तत्सर्वमाददानायास्तस्याः पक्षद्वयी व्यतिचक्राम। सुभगशिरोमणिर्मणिसारः क्षमापकुमारस्त्वत्सम्भोगमीहते इति दूत्यैकदाभिहिते शीलालङ्कारशालिनी सा सुरूपा भूपसूनो: शिक्षां दातुमनाः कपटेनेति तामाह, इतः सप्तमेऽहनि ममौकसि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org