SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ तरङ्ग १० / कथा २५१ / २५२ चर्मणां महार्घता हि पशूनामारोग्येन बाहुल्येन च स्यात्, मेघा वर्षन्ति, तृणान्युद्गच्छन्ति तदा च पशूनामारोग्यं बाहुल्यं च, एवं हि जगतोऽपि कल्याणम् । हे भद्रौ ! तेनैषा युवयोः प्रतिपत्तिविपरीतता, यतोऽहं श्राविका, जं जं समयं जीवो, आविस्सइ जेण जेण भावेण । सो तंमि तंमि समए, सुहासुहं बंधए कम्मं ॥ ४ ॥ [ उपदेशमाला ] इति तीर्थंकरवचनानि जानानाऽस्मि । यादृशी यस्य मनोवृत्तिस्तस्य तादृशी प्रतिपत्तिर्मया विधीयते । इति निशम्यैतत्सर्वमुचितं मन्यमानौ तौ स्वस्थानं जग्मतुः ॥ इति मनः परिणामे घृतचर्मव्यापारकारिवणिक्कथा ॥ २५९ ॥ ॥ २५२ ॥ वचनमाधुर्ये वैकुण्ठविप्रकथा ॥ विधुरितसुधामधुरिमा वचसां विलासो हि केषाञ्चिदेव, यतः - २९१ 1 वाङ्माधुर्यं सुधाधुर्यं केषाञ्चित्स्याद्वपुष्मताम् । श्रेष्ठिस्वप्नफलं दुष्ट-मपि शिष्टं जगौ द्विजः ॥ १ ॥ तथाहि — स्वश्रीसञ्चयसम्भूषिताऽम्भोधितटे बेन्नातटे नगरे पुण्यभद्र श्रेष्ठी, स. चैकदाऽऽधि-व्याधि-मलमूत्रादिपीडारहितः सुखसुप्तस्तुरीये यामिनीयामेऽनिष्टफलसूचकं स्वप्नमद्राक्षीत् । सद्यः प्रबुद्धेन मेधाविना तेनेति चिन्तयाञ्चक्रे, अहो ! अयमत्यन्तानर्थदुष्टफलः स्वप्नो मया ददृशे । नूनमनेन दुष्टस्वप्रेन ममाऽचिरेण किमप्यनिष्टं भवितेति मत्वा प्रभाते दुष्टस्व प्रशान्तिसज्जं मज्जनं कृत्वा कृतकौतुकमङ्गलः पुष्प - फल - तण्डुलादिपरिपूर्णपाणिपुटः स श्रेष्ठी श्रीकण्ठनाम्नोद्विजन्मनो गृहं ययौ । यतः - रिक्तपाणिस्तु नो पश्ये- द्राजानं दैवतं गुरुम् । नैमित्तिकं विशेषेण, फलेन फलमादिशेत् ॥ २॥ पुरः प्राभृतीकृतफलादिना श्रेष्ठिना स्वप्रफलं पृष्टः स द्विजो दध्यौ, नूनमनेन दुष्टः स्वप्रो दृष्टः - दुष्टस्वप्रैः प्रकृतिगै - दुर्निमित्तैश्च दुर्ग्रहैः । हंसचारान्यथात्वेन ज्ञेयो मृत्युः समीपगः ॥ ३ ॥ अतोऽनेन दुःस्वप्नेनास्य मृत्युः समीपवर्ती जातोऽस्तीति मत्वा सोऽवोचत् । व्याकरणादिसकलशास्त्रकुशलोऽपि स कटुकभाषी स्वप्नस्याऽस्य सत्यं फलं बभाषे । हे श्रेष्ठिन् ! पुत्र - कलत्र - मित्रादिसर्वपरिवारात्प्रथममेव तव मरणमिति पविपातादपि कठिनतरेणाऽनेन वचनेन कामं दूनः सोऽचिन्तयत्, अहोऽनेन दुरात्मना कटुतरभाषिणा भृशं दुष्टमभाणि, तेनाऽलमनेन पापिना परुषभाषिणा, पृच्छाम्यन्यं कमपि कोविदमस्य स्वप्रस्य फलमिति मत्वा गृहमागत्य च गृहीतपुष्प - फलादिपूर्णपाणिः स पुनर्वैकुण्ठनाम्नो द्विजन्मनो गृहं ययौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy