SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ २९० कथारत्नाकोश्री हेमविजयरचिते तथा च श्रीमुनिसुन्दरसूरिपादाःप्रसन्नचन्द्रराजर्षे-मनःप्रसरसंवरौ। नरकस्य शिवस्यापि, हेतू भूतौ क्षणादपि ॥ २॥ अपि चअभिप्रायवशात्पाप-ध्यानं नो वस्तुदर्शनात् । वाच्यात्र विदुषां मुख्यै-घृतचर्मवणिक्कथा ॥ ३॥ 'तथाहि-महानगरे नगरे घृतचर्मव्यापारकारिणौ द्वौ वणिजौ वसतः स्म। एकदा तौ द्वावप्याषाढमासे स्वस्वव्यापारचिकीर्षया ग्रामान्तरयियासू स्वनगरान्निर्गतौ, महापत्तनं पुरं च प्रविष्टौ। तत्र च धनवत्या रन्धनकारिण्याः श्राविकाया गृहेऽन्नपाकं कारयितुमनसौ प्राप्तौ। कृतजोत्कारौ तौ कौ युवां? किंकिं व्यापारविधायिनाविति तया पृष्टौ तावूचतुः । __हे मातः ! श्रावकावावां, किंचैको घृतव्यापारकारी द्वितीयश्च चर्मव्यापारकारीति सम्यक् तदभिहितमाकर्ण्य धीमती सा दध्यौ, नूनं यो घृतव्यापारं चिकीर्षुः स पुण्यवान्, यतो मेघा वर्षन्ति, तृणान्युद्गच्छन्ति, तद्भक्षणेन गावो महिष्यश्च प्रभूतदुग्धदायिन्यः स्युः तदा च घृतानि समर्घाणि सुलभानि भूयांसि भवन्तीत्यस्य ध्यानं श्रेयस्तरमिति। यो हि चर्मव्यापारचिकीर्षुः स हि पापवान्। यतो घनाघना न वर्षन्ति, तदा तृणानि नोद्गच्छन्ति तदप्राप्त्या च बहवः पशवो म्रियन्ते, तदा च चर्माणि समर्घाणि सुलभानि भवन्तीत्यस्य च मन:परिणामो न श्रेयानित्यसौ पापवानिति च मत्वा सा श्राविकामतल्लिका सर्पिव्यापारचिकीर्षोरासनं गृहमध्ये चन्द्रोदयाधस्तादमण्डयत्। द्वितीयस्य चासनं गृहाबहिराकाशे च । अथ तौ स्वं स्वं यथोचितमन्नं भुक्त्वा स्वस्वसमीहितं ग्रामं च गत्वा निजं निजं व्यापारं कृत्वा च वलमानौ तत्र नगरे तस्या एव श्राविकाया गृहे भोजनार्थं प्राप्तौ। __ कृतज्जोत्कारौ तया पृष्टसुखव्यापारौ भुतेरवसरे व्यत्ययेन निवेशितौ च तौ तां पृथक् पृथक् कथयति स्म। हे मातापारार्थं गच्छतोरावयोस्त्वयोचितमकारि, यतो घृतव्यापारो हि सर्वव्यापारेभ्यः श्रेयान्, तेन तत्कारिणो मम गृहान्तरासनमण्डनादिप्रतिपत्तिः शुभा व्यधायि, अथान्यः प्राह चर्मव्यापारो हि सर्वत्र सतामतिनिन्दनीयः, सर्वव्यापारेभ्योऽधमतमश्च, तेन तद्विधायिनो मम बहिरासनमण्डनादिदुःप्रतिपत्तिरुचिता व्यरचि। साम्प्रतं यदावयोरासनमण्डनादिषु वैपरीत्यं तत्किं कारणम्? अथ सा स्वयं प्राचिन्तितमभिधायाऽधुना विहितस्य वैपरीत्यस्य कारणमाह, हे पुत्रौ! शृणुत, घृतव्यवसायिनो हि स्वान्तवृत्तिरिदानीमशुभा, यतोऽयं घृतं महार्घमीहते, घृते महार्घता हि पशूनामुपद्रवेणैव स्यात्, मेघाऽभावेन तृणानामनुद्गमः, तृणाऽनाप्त्या हि पशुपरासुता, किं बहुना? एवं चिन्त्यमाने हि जगतोऽपि द्रोहः। अथ चर्मव्यापारकारिणो हि मनोवृत्तिरधुना श्रेयसी, यतोऽयमधुना चर्माणि महा_णि समीहते, १. तुला- उपदेशप्रासादे व्या. १५३ ॥ फलमाह-PD || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy