________________
तरङ्ग १० / कथा २५३ / २५४
भवतागन्तव्यमिति तदुक्तेन सङ्केतेन स सायं तत्राऽऽगतः, सतीमतल्लिकया तया भोजितवटक:
स तोयस्थाने स्वच्छां मदिरां पपौ ।
अथ मद्यमदमुद्रितदृशं तं मुण्डितमस्तकमुखं कृत्वा गाढकम्बलग्रन्थौ निबध्य च सा ग्रामाद् बहिश्चिक्षेप । अथ निशीथे गतमद्यबलः पिहितमुखमस्तकः स स्वगृहमागत्य प्राणप्रियं पुरोहितपुत्रं स्वमित्रमाहूय प्रोचे, हे मित्र ! मयेदमनुष्ठितं पश्य मम स्वरूपमित्यभिहितः स सुहृद् निजधिया दुःसाध्यरोगमिषेण तं गाढं पूत्कुर्वन्तं कारयित्वा तस्य शिरसि मुखे च घुसृणमसृण श्रीखण्डद्रवलेपं कृत्वा इमं कलङ्कं निराकरोत् । कतिचिद्वासरैः पुनः प्ररूढमुखमस्तकचिकुरः सतां स्मरन् स्वसञ्चारिणीं तदभ्यर्णे प्राहिणोत् । अहो ! के के पुरुषाः कामेन न विडम्बिता: ! यतः
२९३
―
उर अंतर-वाहणए थण-पव्वय - रोमराय वणगहणे । सुर-नर-गण- गंधव्व, नग्गविआ मयण चोरेण ॥ ५ ॥ विकलयति कलाकुशलं, हसति शुचिं पण्डितं विडम्बयति । अधरयति धीरपुरुषं, क्षणेन मकरध्वजो देवः 11 ६ 11
पुनरागतायास्तस्या दूत्याः करे सा साध्वी तैर्मस्तकमुखकेशैः सहिते पञ्जरे पक्षिणमेकं निक्षिप्य प्रेषयामास, स्माह च हे भद्रे ! वाच्यं स्वभर्तुरिति, पञ्जरस्थवस्तूनि कामं रहसि विलोक्य वस्तुनोऽनुसारतस्त्वया विधेयम् । अथाऽनया तथैवाभिहिते सोऽपि सद्यः तथैव निर्मिमीते स्म । पञ्जरान्तः पक्षिणं केशांस्तांश्च विलोक्य स दध्यौ, अहो ! तया धीमत्या मम किं ज्ञापितमिति तस्याश्चेतश्चिन्तितमविदन् स स्वं तन्मित्रमाकार्य तद्वस्तुदर्शनपुरस्सरमवोचत्, मदीयैस्तैः केशैः कलितमिमं पक्षिणं प्रेषयन्त्या तया पण्डितया किं मम ज्ञापितम् ?
केशास्त्वागतास्तव मुखमस्तकयोः प्ररूढत्वात् यतो मुण्डितानाममीषां पुनरुद्गमः, इति केशप्रेषणाभिप्रायः, पक्षिणस्त्वण्डजाः, अण्डजानां च पञ्चेन्द्रियत्वेऽपि न केषाञ्चिदपि कर्ण - प्राणाऽऽकृतिर्दृश्यते, तेनैतत्तुल्यं कर्णघ्राणरहितं त्वां करिष्यामीति पक्षिणं प्रेषयन्त्या तया सूचितमस्ति, तेन यथाऽऽयतिसुन्दरं भवति तद्विधेहीति मित्रवचनमवधार्य स राजसूनुराकाशकुसुममिव तदङ्गभोगं दुर्लभं मत्वा तस्या विषये नीरागोऽजनिष्ट । ॥ इति शीलपालने सुरूपानामश्रेष्ठिवधूकथा ॥ २५३ ॥
Jain Education International
॥ २५४॥ शीलमाहात्म्ये साधुश्रीसंग्रामसौवर्णिककथा ॥ शीलप्रभावतो हि देवदानवा अपि दास्यभाजो भवन्ति, यतः - हरति कुलकलङ्कं लुम्पते पापपङ्कं सुकृतमुपचिनोति श्राघ्यतामातनोति । नमयति सुरवर्गं हन्ति दुर्गोपसर्गं, रचयति शुचि शीलं स्वर्गमोक्षौ सलीलम् ॥१॥ अपि च
For Private & Personal Use Only
www.jainelibrary.org