________________
२९४ क्यारत्नाकरेश्री
हेमविजयरचिते किं विश्वविश्वत्रयचारुशीलं, शीलस्य माहात्म्यमुदीरयामः । सङ्ग्रामसाधोः स हि सङ्गमाप्य, वन्ध्योऽपि सद्यः फलति स्म चूतः ॥ २॥
तथाहि-सकलमालवमण्डललक्ष्मीलतामण्डपे श्रीमण्डपाचले श्रीग्यासुदीनपातशाहिराज्ये आनन्द इव श्रावकश्रेणिग्रामणी: श्रेष्ठिश्रीसुदर्शन इव शीलवन्मस्तकमणिः साधुश्रीसंग्रामसुवर्णकार: सर्वराज्याधिकार्यासीत् । स च देवपूजा-दया-दान-जिनशासनप्रभावनादिसर्वधर्मकर्मसु कर्मठः शुद्ध श्रावकत्वं पालयति।
एकदा काननश्रीलास्यलीलावितानोताले पुष्पकाले समुपेयुषि तेन साधुश्रीसंग्रामादिपरिवारेण परिवृतः श्रीग्यासुदीनपातशाहिर्वसन्त इवोद्यानभूम्याभरणीबभूव ।तत्रच काममविरलदलपटलपेशलं ग्रीष्म-शीत-प्रावृट-कालोपद्रवनिराकरणकुशलं सकललोकाऽमन्दाऽऽनन्दरसरसवतीसूपकारं महान्तमेकं सहकारं विलोक्य छायामिच्छुः स शाहिस्तस्य तले समुपविशन् परिवारेणाऽभाणि, हे देव! वन्ध्यस्याऽस्य सहकारस्याधस्तात्पार्थिवानामवस्थानं न स्थाने, इति निशम्य शाहिराह, अहो! किमनेनाऽवकेशिना वनाऽवनिविनाशविधायिनेति समूलोऽयमुन्मूल्यतामिति। कर्णकटु तद्वचः श्रुत्वा परमार्हतः स संग्रामसौवर्णिको दध्यौ, अमी म्लेच्छा निष्करुणाः, अतोऽसौ शाहिस्त्वेनं महातरुमवश्यमुन्मूलयिष्यति, अत एनं तरुमहं रक्षामीति मत्वा स तं शाहिमाह, हे स्वामिन्नथ फलिष्यति न वेति गत्वाहं पृच्छाम्येनकमानं, शाहिनापि प्रतिश्रुते स सहकारतले समेत्य स्वपाणिना तं स्पृशन्नेवमवोचत्, यदि मम शीलं सम्यक्त्वं च सम्यक् स्यात्, तदासौ सहकारः फलेग्रही भूयादित्युक्त्वा निजपाणिना स्पृष्ट्वा द्रुतमागत्य शाहिमब्रवीत् । हे देव! अयमाम्रो मन्मुखेनैतद्विज्ञपयति यदहमागामिनि वर्षे फलिष्यामि, न चेत्तदा शाहिना यथारुचि विधेयमिति श्रुत्वा भूपः स्वस्थानमुपेयिवान्।।
___ अथ सौवर्णिकेनापि द्वितीयस्मिन्नहनि तत्र तरुमूले गत्वा दुग्धेनाऽऽलवालं पूरयित्वेदमवादि - हे माकन्दमहातरो! मया त्वं रक्षितोऽसि, त्वयापि यथा मद्वचः समीचीनं भवति तथा विधेयमिति, कथितं मालाकाराणां च फलितेऽस्मिन् सहकारे मम वर्धापनिका देयेति। अथोपेयुषि वर्षे प्रकामं फलितं तमाममुदीक्ष्य मालाकारैर्वर्धापितः सौवर्णिकः, सोऽपि तस्य पेशलैः फलैः कनकस्थालं भृत्वा शाहिपुरः प्राभृतीकृतवान् ऊचे हे स्वामिंस्तेनामेणैतानि फलानि ढौकितानि सन्तीति शाहिनापि स्वपुरुषैस्तन्निर्णयं विधाय ततः प्रभृति स संग्रामसौवर्णिको विशेषेण बहुमेने। ॥ इति शीलमाहात्म्ये साधुश्रीसंग्रामसौवर्णिककथा ॥ २५४॥
॥ २५५॥ परोपकारकरणे श्रीविक्रमादित्यनूपकथा ॥ सन्तो हि सर्वदा परोपकारकरणपरायणाः स्युः, यतः
कस्यादेशात् क्षपयति तमः सप्तसप्तिः प्रजानां ?,
छायां कर्तुं पथि विटपिनामञ्जलिः केन बद्धः ?। १. तस्य तलोत्तिष्ठासुः परिवारेमा PD ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org