Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha

View full book text
Previous | Next

Page 342
________________ तरङ्ग १०/ कथा २५५/२५६ २९७ महिषी, सा च लघ्वी श्यामवर्णा प्रभूतपयःप्रदा भाद्रपदकादम्बिनीव प्रीतिदायिनी। किं चेयं महिषी तृण-खल-कर्पासादिकं भक्ष्यं भूरि भुङ्क्ते, तेन च सा नित्यं निद्रामुद्रितनेत्रैव तिष्ठति । तेन धनिकेन 'उंघ' इति तस्या नाम निर्ममे। ततः सर्वोऽपि ग्रामलोकस्तां महिषी उंघ इति कथयति। तस्याः प्रसादेन बहुदुग्ध-दधि-घृतलाभमाप्य स कुटुम्बी सदैव सुखमश्रुते। इतश्चाऽस्य ग्रामस्य परिसरसीमनि तस्करा बहुवृषभ-महिष-महिषीमिश्रं गोवर्गमादाय यान्तीति निशम्य तमेवोजागरनामानं तुरगमारुह्य स खेतसी राजपुत्रस्तेषां पृष्ठे धावति स्म। हयारूढं तमायान्तं निरीक्ष्य त्रस्तास्ते तस्कराः स्वं गोवर्गं तत्रैव हित्वा काकनाशमनश्यन् । निर्धनिकं तं गोवर्गमादाय स खेतसी स्वं ग्राममाययौ। अथ सर्वोऽपि स गोवर्गस्तेन सर्वेषामपि ग्रामलोकानां विभज्य दत्तः। 'यो हि दत्ते स देव' इति धिया सर्वैरपि ग्रामलोकैरयमभ्युत्थानाऽऽसनमण्डनाऽऽशीर्वादादिना प्रत्यहं सत्क्रियते स्म। इति सकलैर्लोकैः पदे पदे पूज्यमानं तं निरीक्ष्य खेमाख्यः स कुटुम्बीति दध्यौ, यदसौ राजपुत्रः सर्वत्र पौरैः पूज्यते सन्मान्यते च देवतेव, तन्नूनमस्य हयस्य महिमा, तुरगप्रसादादेव तेनाऽसौ गोवर्गोऽपि समानीतः, तदिमां महिषीमेनं दत्त्वा तं वाजिनमाददामीति मत्वा, महिषीमिमामादाय तुरङ्गमोऽयं दीयतामिति स कुटुम्बी तं राजपुत्रं जगौ। स राजपुत्रोऽपि तदभिहितं प्रतिश्रुत्य तमुज्जागरं तुरगं दत्त्वा तां उंघाभिधानां महिषीमादत्ते स्म। अथ तस्य राजपुत्रस्य वेश्मनि तस्या महिष्या भूरिणा दुग्धदधि-घृत-तक्रादिगोरसेन नित्यं दीपालिकामहोत्सवोऽजनि। किं बहुना? सर्वोऽपि तस्य परिच्छदः कलितस्वर्लोकाऽवतार इव सुखभागबभूव। यद्गृहे तक्रबिन्दुरपि नासीत् तद्गृहे तु प्रचुरपय:प्रदायिनी सा महिषी दुग्धकादम्बिनी बभूव, अतस्तन्मन्दिरं नित्योत्सवमयं जातम् । __ अथ तस्य खेमाख्यस्य कुटुम्बिनो वेश्मनि तत्तुरङ्गमच्छलान्मूर्त दौर्गत्यमवतीर्णं, तेनाऽऽस्तां दुग्ध-दधि-घृतादिगोरसस्वादः, तक्रार्थं तद्गृहिणी हि प्रतिगृहं पर्यटनं चकार । तस्य शिशवो हि दुग्ध-दधिरहिताः काममसुखभाजोऽभवन् । स्वयं च तस्य तुरगस्य चरणार्थं महत्तृणभाराऽऽनयनादिव्यसनजन्यविडम्बनां सहमानो भृशमसुखमनुभवति। अथैकदा मध्याह्ने महान्तं तृणभारं मूर्धनि दधानं ज्वलत्पावकेनेव प्लुष्टे पथि व्रजन्तं तं कोऽपि तत्सम्बन्धिजनोऽभिदधे । हे भ्रातः ! असि सुखीति तेनाऽभिहितः स स्माह, कुतः सुखं मम? येन दुर्मतिना मया कामधेनुरूपा सा उंघमहिषी विक्रीता, अयमुज्जागरः पापमूलं तुरगश्च जगृहे । 'उंघ वेंची उजागरो लीधउ' इत्यभीक्ष्णं भणन् स बाष्पप्लावितलोचनो जातः । ततो लोके 'उंघ वेंची उजागरो लीधउ'। इत्यसावाभाणकः प्रथितः सर्वत्र। ॥ इति मूर्खचेष्टिते खेमाऽऽख्यकुटुम्बिकथा ॥ २५६॥ १. तुला- चन्द्रशेखररासे । मध्यकालीन गु. कथाकोशे च ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380