________________
तरङ्ग १०/ कथा २५५/२५६
२९७ महिषी, सा च लघ्वी श्यामवर्णा प्रभूतपयःप्रदा भाद्रपदकादम्बिनीव प्रीतिदायिनी। किं चेयं महिषी तृण-खल-कर्पासादिकं भक्ष्यं भूरि भुङ्क्ते, तेन च सा नित्यं निद्रामुद्रितनेत्रैव तिष्ठति ।
तेन धनिकेन 'उंघ' इति तस्या नाम निर्ममे। ततः सर्वोऽपि ग्रामलोकस्तां महिषी उंघ इति कथयति। तस्याः प्रसादेन बहुदुग्ध-दधि-घृतलाभमाप्य स कुटुम्बी सदैव सुखमश्रुते। इतश्चाऽस्य ग्रामस्य परिसरसीमनि तस्करा बहुवृषभ-महिष-महिषीमिश्रं गोवर्गमादाय यान्तीति निशम्य तमेवोजागरनामानं तुरगमारुह्य स खेतसी राजपुत्रस्तेषां पृष्ठे धावति स्म। हयारूढं तमायान्तं निरीक्ष्य त्रस्तास्ते तस्कराः स्वं गोवर्गं तत्रैव हित्वा काकनाशमनश्यन् । निर्धनिकं तं गोवर्गमादाय स खेतसी स्वं ग्राममाययौ। अथ सर्वोऽपि स गोवर्गस्तेन सर्वेषामपि ग्रामलोकानां विभज्य दत्तः। 'यो हि दत्ते स देव' इति धिया सर्वैरपि ग्रामलोकैरयमभ्युत्थानाऽऽसनमण्डनाऽऽशीर्वादादिना प्रत्यहं सत्क्रियते स्म। इति सकलैर्लोकैः पदे पदे पूज्यमानं तं निरीक्ष्य खेमाख्यः स कुटुम्बीति दध्यौ, यदसौ राजपुत्रः सर्वत्र पौरैः पूज्यते सन्मान्यते च देवतेव, तन्नूनमस्य हयस्य महिमा, तुरगप्रसादादेव तेनाऽसौ गोवर्गोऽपि समानीतः, तदिमां महिषीमेनं दत्त्वा तं वाजिनमाददामीति मत्वा, महिषीमिमामादाय तुरङ्गमोऽयं दीयतामिति स कुटुम्बी तं राजपुत्रं जगौ। स राजपुत्रोऽपि तदभिहितं प्रतिश्रुत्य तमुज्जागरं तुरगं दत्त्वा तां उंघाभिधानां महिषीमादत्ते स्म। अथ तस्य राजपुत्रस्य वेश्मनि तस्या महिष्या भूरिणा दुग्धदधि-घृत-तक्रादिगोरसेन नित्यं दीपालिकामहोत्सवोऽजनि। किं बहुना? सर्वोऽपि तस्य परिच्छदः कलितस्वर्लोकाऽवतार इव सुखभागबभूव। यद्गृहे तक्रबिन्दुरपि नासीत् तद्गृहे तु प्रचुरपय:प्रदायिनी सा महिषी दुग्धकादम्बिनी बभूव, अतस्तन्मन्दिरं नित्योत्सवमयं जातम् ।
__ अथ तस्य खेमाख्यस्य कुटुम्बिनो वेश्मनि तत्तुरङ्गमच्छलान्मूर्त दौर्गत्यमवतीर्णं, तेनाऽऽस्तां दुग्ध-दधि-घृतादिगोरसस्वादः, तक्रार्थं तद्गृहिणी हि प्रतिगृहं पर्यटनं चकार । तस्य शिशवो हि दुग्ध-दधिरहिताः काममसुखभाजोऽभवन् । स्वयं च तस्य तुरगस्य चरणार्थं महत्तृणभाराऽऽनयनादिव्यसनजन्यविडम्बनां सहमानो भृशमसुखमनुभवति। अथैकदा मध्याह्ने महान्तं तृणभारं मूर्धनि दधानं ज्वलत्पावकेनेव प्लुष्टे पथि व्रजन्तं तं कोऽपि तत्सम्बन्धिजनोऽभिदधे । हे भ्रातः ! असि सुखीति तेनाऽभिहितः स स्माह, कुतः सुखं मम? येन दुर्मतिना मया कामधेनुरूपा सा उंघमहिषी विक्रीता, अयमुज्जागरः पापमूलं तुरगश्च जगृहे । 'उंघ वेंची उजागरो लीधउ' इत्यभीक्ष्णं भणन् स बाष्पप्लावितलोचनो जातः । ततो लोके 'उंघ वेंची उजागरो लीधउ'। इत्यसावाभाणकः प्रथितः सर्वत्र। ॥ इति मूर्खचेष्टिते खेमाऽऽख्यकुटुम्बिकथा ॥ २५६॥ १. तुला- चन्द्रशेखररासे । मध्यकालीन गु. कथाकोशे च ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org