________________
कथारत्नाकरे श्री
हेमविजयरचिते
युगपत्सकलामपि त्रिलोकीं द्रुतं दर्शयामीति । तथैव तमारूढोऽहं तेन पापिना खरेण गवाक्षद्वारेण स्वपृष्ठतः काममुल्लाल्य गोमयपिण्डमिवात्र कठिनप्रदेशे पातितः, तथोच्चैस्तरगवाक्षद्वारत: पततो मम भ्रष्टपर्पटवदस्थीनि भग्नानीति । तेन स्वर्ग - मर्त्य- पातालत्रयीदर्शनकुतूहलेन सञ्जातहर्षेण हसन्नस्मि, किं च यदहं साक्षात्पातकनिभेन तेन गर्दभेन पातितस्तत्पीडया च रुदन्नस्मीति निशम्य राज्ञा सोऽभिदधे, हे भद्र! सत्यन्ने बुभुक्षेव सत्यम्भसि पिपासेव परदुःखकातरे मयि सति किमिदं रोदनम् ? इति मुञ्च बहुदुःखमूलं रोदनम् । अथ सोऽवदत् हे पुरुषोत्तम ! यदि सौभाग्यश्रिया तर्जिताऽमररमणीजातया तया सह मम विवाहः स्यात्तदा विलापं त्यजामि, नाऽन्यथेति ।
२९६
अथ तत्तुष्टये राजा सौधं प्रविवेश, तथैव च वृषभ - तुरग - गजानारुह्य पाताल - मर्त्यस्वर्गलोकानालोक्य कन्यासमीपं व्रजन् खरेण भणितः स स्माह, हे वाहनाधम ! धिक् त्वां, यश्च त्वामारोहति तमपि धिक्। यतः
गर्दभयानमसंस्कृतवाणी, बालसखित्वमकारणहास्यम्
I
स्त्रीषु विवादमसज्जनसेवा, षट्सु नरो लघुतामुपयाति ॥ ४॥ किं तेन त्रिलोक्यवलोकनेन ? यत्त्वामारुह्य विधीयते ! किं तेन पायसेन ? यच्चाण्डालगृहे भुज्यते ! किं तेन पयसा ? यद् भषणेनार्धपीतं पीयते ! इति बाढं भर्त्सिते तस्मिन् खरे तथैव तस्थुषि, विद्युत्पुञ्ज इव तेजसा स्फुरन्मणिकुण्डलाद्यनेकाभरणभूषितः पुरः कोऽपि सुरः प्रादुरासीत्, स्माह च, हे राजन्नहमस्याः पिता द्विजन्मा मृत्वा च सुरोऽभूवं, अस्या मातापि परासुरभूत् । तेनाहं निबिडनिगडसदृशेन स्नेहेन अस्याः सुखाय पतिपरीक्षार्थं सौधादि सर्वमिदं व्यधाम्। परं त्वां विनाऽत्राऽऽगताः सर्वेऽपि खराऽऽरोहणं विदधिरे, तेन ते सर्वेऽपि गवाक्षद्वारेण बहिः क्षिप्ताः, अथास्या मम सुतायाश्चिन्ताकारस्त्वमेव, अतस्त्वदुत्सङ्गे मयेयं न्यधायीति प्रतिपाद्य तिरोहितसौधादिसर्वविस्तारः स सुरः कनकादिना राजानं पुत्रीं च सत्कृत्य तिरोऽभूत् । अथ राज्ञा मनः कामकामितां तां कन्यां स द्विजपुत्रः परिणायितः, दत्तं खानदेशस्य राज्यं च। ॥ इति परोपकारकरणे श्रीविक्रमादित्यनृपकथा ॥ २५५ ॥
॥ २५६ ॥ मूर्खचेष्टिते खेमाख्यकुटुम्बिकथा ॥
मूर्खा हि निजैरेव दुश्चेष्टितैरशर्मभाजो भवन्ति । यतः
कार्यैर्निजैरेव भवन्ति मूर्खाः, पदे पदे दुःखशताभिभूताः ।
विक्रीय निद्रां जगृहे जडेन, नोज्जागरः कामितमिच्छुना किम् ? ॥ १॥ तथाहि— पटोलग्रामे खेतसीति राजपुत्रः, तस्य चैको हयः, स च तुरगः सदैव नवीनत्वेन हेषारवमेव कुर्वन्नास्ते । तेन स्वामिना च तस्य 'उज्जागर' इति नाम निर्ममे, सर्वोऽपि ग्रामलोकस्तं तुरगमुज्जागरमेव भणति । इतश्च तत्रैव ग्रामे खेमाऽऽख्यस्य कुटुम्बिनो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org