________________
कथारत्नाकरे श्री
॥ २५७॥ अवश्यभाविविषये भाविनीराज्ञीकर्मरे खराजकथा दैव-देव- पार्थिव-परिवारादिसामग्रीबलात्कर्म बलवत्तरं, यतः - ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे, विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे । रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः, सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥१॥ तेन पुरातनप्रौढपण्डितैर्दैवविधीन् विमुच्य कर्मभ्य एव नमस्कारश्चक्रे । यतः - नमस्यामो देवान् ननु हतविधेस्तेऽपि वशगा, विधिर्वन्द्यः सोऽपि प्रतिनियतकर्मैकफलदः । फलं कर्मायत्तं यदि किममरैः किञ्च विधिना, नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥ २॥
अपि च
दैववश्यं वृथा कार्यं, विधातुं शक्नुवन्ति के । दैवादेव हि सङ्गोऽभू-द्भाविनी - कर्मरेखयोः ॥ ३॥ तथाहि— मनोरमे नगरे रिपुमर्दननामा राजा, अपुत्रिणस्तस्य भाविनीनामपुत्री, सा च पितुः प्राणेभ्योऽपि प्रेयसी, तेनैतस्याः स्नानभोजनमज्जनादिप्रह्वायामेव राजा स्नान- - भोजनमज्जनादि करोति । किं बहुना ? तन्मुखावलोकनमेव परमं पुण्यं मन्यमानः स प्रजापतिः । सा भाविनी पुण्यदत्तस्य कलाचार्यस्य समीपे चतुःषष्टिकलाभ्यासं करोति स्म । इतश्च अत्रैव नगरे सर्वथा निर्धनस्य धनदत्तस्य श्रेष्ठिनः सप्तपुत्रोपरि जातः कर्मरेखाख्यः पुत्रः, स च लघीयस्त्वेन पितुः प्रकामं प्रियः, सोऽपि तस्यैव गुरोः पार्श्वे कलाभ्यासं विधत्ते ।
अधीतकलाजातया तया चैकदा कर्मरेखे पार्श्वे स्थिते स गुरुरपृच्छि, हे तात! मम को वरो भावी ? इति । तेनापि लग्नमवलोक्य कर्मरेखोऽयं भवत्या भर्ता भविष्यतीति श्रुत्वा वज्रहतेव खेदमापन्ना सेति दध्यौ, हा हा! असौ वराको दौर्गत्यपुत्रको मम पतिस्तदा मम मृतिरेव श्रेयसी, किंचाऽस्मिन् संस्थिते नूनमन्यो मम भर्ता न भवितेति विचिन्त्य कोपगृहं गत्वा निःश्वासत्रस्तलोहकारभस्त्रा बाष्पपूरप्लावितकञ्चुका सा स्वं मुखं पिधाय सुष्वाप । अथ भोजनाऽवसरे क्व गता भाविनीति राज्ञा गवेषिता, क्वाप्योकसि सुप्तां तां विज्ञाय तत्राऽऽगतस्तादृशीं भाविनीमुत्सङ्गसङ्गिनीं कृत्वा राजा दुःखनिदानमप्राक्षीत् । स्वचिन्तिते तयाभिहिते राज्ञा किङ्कर्तव्यमिति सर्वेऽपि स्वसचिवाः पृष्टाः, ते प्रोचुर्हे मनुजाधिराज ! निष्कारणं मनुजमारणं तु राज्ञां नोचितं, तेनाऽस्य पितैवाऽऽकारणीयः, यथा तस्यैव किञ्चिद्वितीर्य स तत्सुतो गृह्यते, पश्चात्स्वमीप्सितं विधास्यते, तथा च नाऽऽत्मनामनीतिरिति श्रुत्वा राज्ञा स धनदत्तः समाहूतः पृष्टश्चाऽऽत्मचिन्तितं पविपातादपि कठिनतररचनं तद्वचनं श्रुत्वा साऽश्रुलोचनो धनदत्तोऽभिधत्ते स्म । हे देव ! के सुताः ? का स्त्री ? कश्चाऽहमिति सकलोऽपि मत्परिवारस्तावकीन एवास्तीति यथारुचि विधीयताम् । राजापि इतो व्याघ्र इतस्तटीति न्याये १. तुला उपदेशप्रासादे व्या. २३१ ॥ C प्रतौ पार्श्वभागे अयं श्लोकः दृश्यते
२९८
उदयति यदि भानुः पश्चिमायां दिशायां, प्रचलयति यदि मेरुः शीततां याति वह्निः । विकसति यदि पद्मं पर्वताऽग्रेशिलायां, न चलति विधिविशेषं, भाविनी - कर्मरेखः ॥
Jain Education International
हेमविजयरचिते
For Private & Personal Use Only
www.jainelibrary.org